SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १३३ तत्रैतादृशतिथिद्धयनन्तरमुत्तरतिथेराकस्मिको ह्येतादृशो हासो दुर्लभः । वचन तु वक्ष्यमाणस्मातॆकादशीनिर्णायकस्कान्दवचनार्थेन समानं बोध्यम् । तत्रादौ वैष्णवान् प्रति शुद्धोक्ता गारुडे "उदयात्माग्यदा विप्र ! मुहूर्तद्वयसंयुता । सम्पूर्णैकादशी ज्ञेया तत्रैवोपवसेद् गृही ॥" सम्पूर्णा शुद्धेत्यर्थः। गृही वैष्णवः । भविष्यपुराणे "अरुणोदयकाले तु दशमी यदि दृश्यते । सा विद्वैकादशी तत्र पापमूलमुपोषणम् ॥ दशमीशेषसंयुक्तो यदि स्यादरुणोदयः । नैवोपोष्यं वैष्णवेन तदिनैकादशीव्रतम् ॥" अरुणोदयस्वरूपं हेमाद्रौ स्मृत्यन्तरे "निशि प्रान्ते तु यामार्दै देववादित्रवादने । सारस्वतानध्ययने चारुणोदय उच्यते ॥" वैष्णवलक्षणन्तु स्कान्दे "परमापदमापनो हर्षे वा समुपस्थिते । नैकादशीं त्यजेद् यस्तु यस्य दीक्षा तु वैष्णवी ॥ समात्मा सर्वभूतेषु निजाचारादविप्लुतः । विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते ॥” इति । द्वादश्याधिक्ये स्कान्दे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy