________________
१३२
तिथ्यर्क :
नित्योपवासी यो मर्त्यः सायं प्रातर्भु जिक्रियाम् ।
संत्यजेन्मतिमान् विप्रः सम्प्राप्ते हरिवासरे ||"
इति विष्णुवचनात् । विप्र इत्युपवास्युपलक्षणम् । कांस्यमांसनिषेधा अपि पूर्वोक्ताः
व्यवतिष्ठन्ते,
काम्योपवासविषये एव
"कांस्य मांसं मसूरञ्च पुनर्भेाजनमैथुने । द्यूतं मद्याम्बुपानं च फलप्रेप्सुर्विवर्जयेत् ॥” इति विष्णुधर्मोत्तरात् । मांसमद्ययेायेषां प्राप्तिस्तेषामेव निषेधः । अम्बुपानमसकृत् । उक्त नियमोपेतः कर्त्ता स्नानोत्तरमुपवासं सङ्कल्पयेत् । तत्र मन्त्रमाह देवल:
" एकादश्यां निराहारो भूत्वाऽहमपरेऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष ! गतिर्भव ममाच्युत ! ॥” इति । फलाहारपक्षे फलाहारो भूत्वेति कल्प्यम् । कचित्तु स्थित्वा - मित्यपि पाठः ।
अथैकादशी निर्णयः । सा द्वेधा, शुद्धा दशमीविद्धा च । तत्र शुद्धा त्रिविधा, द्वादश्यधिक भयाधिकानुभयाधिकभेदात् । यत्तु माधवाचार्यादिभिः शुद्धायाश्रातुर्विध्यमुक्तम्, तन्न मनोहरम्, आद्यभेदस्यैवासम्भवात् तथाहि । एकादश्याधिक्ये नारदवाक्यं लिखितम्
" सम्पूकादशी यत्र द्वादश्या वृद्धिगामिनी । द्वादश्यां लङ्घनं कार्यं त्रयोदश्यां तु पारणम् ||"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com