SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १३१ उपवासदिने वर्जनीयमाह सुमन्तुः"विहितस्याननुष्ठानमिन्द्रियाणामनिग्रहम् । निषिद्धसेवनं नित्यं वर्जनीय प्रयत्नतः ॥” इति । देवल: "ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् ।। व्रतेष्वेतानि चत्वारि चरितव्यानि नित्यशः ॥" इति । ब्रह्मचर्ये भेदकान्याह स एव "स्त्रीणां तु प्रेक्षणात् स्पर्शात् ताभिः संकथनादपि । भिद्यते ब्रह्मचर्यन्तु न दारेष्टतुसङ्गमात् ॥" अत्र प्रेक्षणादिकं सरागमेव ग्राह्यम् । तेन मातृतत्तुल्यादिदर्शने न दोषः । उपवासदूषकाण्यपि स एवाह "असकृज्जलपानाच सकृत्ताम्बूलभक्षणात् । उपवासः प्रदुष्येत दिवास्वापाच मैथुनात् ॥” इति । अथोपवासनियमेषु नित्यकाम्योपवासभेदाद्विशेषः कथ्यते । तत्र देवल: "दशम्यामेकभुक्तस्तु मांसमैथुनवर्जितः । एकादश्यामुपवसेत्पक्षयोरुभयोरपि ॥” इति । अयश्चैकभक्तादिनियमः काम्योपवासे न तु नित्योपवासे, "सायमायं तयोरहोः सायं प्रातश्च मध्यमे । उपवासफलपेप्सुर्जह्याद्भक्तचतुष्टयम् ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy