SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: सहस्रसंमितां देवीं जपेद्वा प्राणसंयमान् । कुर्याद् द्वादशसंख्याकान् यथाशक्ति च सेो (१) नरः ॥” इति नारी तु भर्त्राद्यनुज्ञयैव व्रतं कुर्यात्, "नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन च । निष्फलं तु भवेत्तस्या यत्करोति व्रतादिकम् ॥” इति मार्कण्डेयपुराणात् । १३० यत्तु मनुविष्णुभ्यामुक्तम् - "नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपेोपणम् । पत्या जीवति या नारी उपवासव्रतं चरेत् ॥ आयुः संहरते भतुर्नरकं चैव गच्छति ।" इति, तद्भर्त्राद्यननुमतेापवासविषयमिति हेमाद्रिः । शुद्धोपवासविषय मिति सारम् । अथैकादशीव्रतं सूतकेऽपि कार्यमित्युक्तं हेमाद्यपरार्कये। वराहपुराणे" सूतके तु नरः स्नात्वा प्ररणम्य मनसा हरिम् । एकादश्यां न भुञ्जीत व्रतमेतन्न लुप्यते ॥ एकादश्यां ततोऽभुक्त्वा सूतकान्ते जनार्दनम् । पूजयित्वा विधानेन पूजयेच्च द्विजोत्तमान् ॥ मृतके तु न भुञ्जीत एकादश्यां सदा नरः । द्वादश्यां तु समश्नीयात् स्नात्वा विष्णुं प्रणम्य च ॥” इति । पुलस्त्य: Code "एकादश्यां न भुञ्जीत नारी दृष्टे रजस्यपि ।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy