________________
तिथ्यर्क:
सहस्रसंमितां देवीं जपेद्वा प्राणसंयमान् ।
कुर्याद् द्वादशसंख्याकान् यथाशक्ति च सेो (१) नरः ॥” इति
नारी तु भर्त्राद्यनुज्ञयैव व्रतं कुर्यात्,
"नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन च । निष्फलं तु भवेत्तस्या यत्करोति व्रतादिकम् ॥” इति मार्कण्डेयपुराणात् ।
१३०
यत्तु मनुविष्णुभ्यामुक्तम् -
"नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपेोपणम् । पत्या जीवति या नारी उपवासव्रतं चरेत् ॥ आयुः संहरते भतुर्नरकं चैव गच्छति ।" इति, तद्भर्त्राद्यननुमतेापवासविषयमिति हेमाद्रिः । शुद्धोपवासविषय
मिति सारम् । अथैकादशीव्रतं सूतकेऽपि कार्यमित्युक्तं हेमाद्यपरार्कये। वराहपुराणे" सूतके तु नरः स्नात्वा प्ररणम्य मनसा हरिम् । एकादश्यां न भुञ्जीत व्रतमेतन्न लुप्यते ॥ एकादश्यां ततोऽभुक्त्वा सूतकान्ते जनार्दनम् । पूजयित्वा विधानेन पूजयेच्च द्विजोत्तमान् ॥
मृतके तु न भुञ्जीत एकादश्यां सदा नरः ।
द्वादश्यां तु समश्नीयात् स्नात्वा विष्णुं प्रणम्य च ॥” इति ।
पुलस्त्य:
Code
"एकादश्यां न भुञ्जीत नारी दृष्टे रजस्यपि ।" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com