SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः १२६ "एकादशी विना विप्र ! न संसाराद्विमोक्षणम् । तत्राऽप्ययं विशेषोऽस्ति कार्या शक्तिमता च सा ।। न तु देहं विदुः माज्ञाः पीडनीयमिहाग्रहात् । शरीरं पीड्यते येन सुशुभेनापि कर्मणा । अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते ॥” इति । असामर्थे प्रकारो वाराहे "असामर्थ्य शरीरस्य व्रते तु समुपस्थिते । कारयेद्धर्मपत्री वा पुत्रं वा विनयान्वितम् ।। भगिनीं भ्रातरं वापि व्रतमस्य न लुप्यते । शृणु यश्चान्यमुद्दिश्य एकादश्यामुपोषितः ।। यमुद्दिश्य कृतो विप्रास्तस्य पूर्ण फलं भवेत् । कर्ता दशगुणं पुण्यं प्राप्नोत्यत्र न संशयः ॥” इति । प्रकारान्तरमाह बौधायन: "उपवासे त्वशक्तानामशीरूद्धर्वजीविनाम् ।। एकभक्तादिकं कार्यमाह बौधायनो मुनिः ॥” इति । आदिपदेन नक्तायाचिते गृह्यते । नक्तभोजिनो विशेषमाह व्यासः "हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्यमधःशय्यां नक्तभोजी षडाचरेत् ।।" इति । तृतीयप्रकारो हेमाद्रौ पुराणे "उपवासासमर्थश्चेदेकं विप्रं तु भोजयेत् । तावद्धनादिकं दद्याद् यद्भक्ताद् द्विगुण भवेत् ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy