________________
१२८
तिथ्यर्कः "एकादशीव्रतं भक्तया यः करोति सदा नरः ।
स विष्णुलोकं व्रजति याति विष्णोः सरूपताम् ॥” इति । नारदीयपुराणे
"यानि कानि च पापानि ब्रह्महत्यासमानि च । अन्नमाश्रित्य तिष्ठन्ति सम्पाप्ते इरिवासरे ।।
तानि पापान्यवानोति भुञ्जाना हरिवासरे ।" तथा--"वैष्णवो वाथ शैवो वा कुर्यादेकादशीव्रतम् ।" अग्निपुराणे__"एकादश्यां न भुञ्जीत व्रतमेतद्धि वैष्णवम् ।" इति । अत्र केषुचिद् वाक्येषु श्रयमाणो 'न भुञ्जीत' इति नत्र न भोजनप्रतिषेधार्थः, किन्तु व्रतशब्दसमानाधिकरण्यात् 'नेक्षेतोद्यन्तमादित्यम्' इतिवत् पयुदासवृत्त्या भोजनप्रतियोग्यभोजनसङ्कल्पप्रतिपादकः तेन हेतुना तैर्वचनैरभोजनसङ्कल्परूपमुपवासाख्यं व्रतं विधीयते । अत्राधिकारिण आह कात्यायन:
"अष्टवर्षाधिको मर्यो अपूर्णाशीतिवत्सरः ।
एकादश्यामुपवसेत् पक्षयोरुभयोरपि ॥" इदं गृहिव्यतिरिक्तपरम् ,
"एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
वानप्रस्थो यतिश्चैव शुक्लामेव सदा गृही ॥" इति कूर्मपुराणात् । इदं च व्रतं शक्तिमता कार्यम् । तथा च ब्रह्मवैवर्ते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com