SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अस्यां तैलाभ्यङ्गं कुर्यात्, तिथ्यर्क: "श्रावण्यां बलिराज्ये च वसन्ते वत्सरे तथा । उत्सवेषु च सर्वेषु दमने च पवित्रके ।। तैलाभ्यङ्गं प्रकुर्वीत न शुद्धं स्नानमाचरेत् । बलिराज्ये वसन्ते च विजये श्रावणी दिने || तैलाभ्यङ्गो न दुष्येत सङ्क्रान्त्यर्ककुजादिभिः ।” १२७ इति वचनात् । अथ दशादित्यव्रतम् । यदा शुक्लदशम्यां भानुवारस्तदा कार्यम् । तदुक्तं भविष्ये - “वक्ष्ये सारवतं पुण्यं दुर्दशानाशकारकम् । भानुवारे सिते पक्ष दशम्यां चैव नारद ! ||" इति । अथ दशमीनियमा हेमाद्रौ कौर्मे - "कांस्यं मांस मसूरं च चणकान् कोरदूषकान् । शाकं मधु परान्न च त्यजेदुपवसन स्त्रियः || ” उपवसन उपवासं करिष्यन्नित्यर्थः । स्कान्दे "कांस्यं मासं मसूरं च क्षौरं चाऽनृतभाषणम् । पुनर्भोजनमभ्यासं दशम्यां परिवर्जयेत् ॥” इति । दशमी गुरुवारेण सिद्धा । भौमेन क्रकचाख्या विरुद्धा | योगिन्यस्यामुत्तरस्याम् । इति दशमी निर्णीता । अथैकादशी निर्णीयते । तत्रादावेकादशीमहिमा हेमाद्रौ गारुडे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy