________________
अस्यां तैलाभ्यङ्गं कुर्यात्,
तिथ्यर्क:
"श्रावण्यां बलिराज्ये च वसन्ते वत्सरे तथा । उत्सवेषु च सर्वेषु दमने च पवित्रके ।। तैलाभ्यङ्गं प्रकुर्वीत न शुद्धं स्नानमाचरेत् ।
बलिराज्ये वसन्ते च विजये श्रावणी दिने || तैलाभ्यङ्गो न दुष्येत सङ्क्रान्त्यर्ककुजादिभिः ।”
१२७
इति वचनात् ।
अथ दशादित्यव्रतम् । यदा शुक्लदशम्यां भानुवारस्तदा कार्यम् । तदुक्तं भविष्ये -
“वक्ष्ये सारवतं पुण्यं दुर्दशानाशकारकम् ।
भानुवारे सिते पक्ष दशम्यां चैव नारद ! ||" इति । अथ दशमीनियमा हेमाद्रौ कौर्मे
-
"कांस्यं मांस मसूरं च चणकान् कोरदूषकान् । शाकं मधु परान्न च त्यजेदुपवसन स्त्रियः || ” उपवसन उपवासं करिष्यन्नित्यर्थः । स्कान्दे
"कांस्यं मासं मसूरं च क्षौरं चाऽनृतभाषणम् । पुनर्भोजनमभ्यासं दशम्यां परिवर्जयेत् ॥” इति । दशमी गुरुवारेण सिद्धा । भौमेन क्रकचाख्या विरुद्धा | योगिन्यस्यामुत्तरस्याम् । इति दशमी निर्णीता ।
अथैकादशी निर्णीयते । तत्रादावेकादशीमहिमा हेमाद्रौ
गारुडे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com