SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः २७ अथ शङ्खस्य "पुण्यस्त्वं शङ्ख ! पुण्यानां मङ्गलानाञ्च मङ्गलम् । विष्णुना विश्रुतो नित्यमतः शान्तिप्रदो भव ॥" अथ सिंहासनस्य-- "विजयो जयदो जेता रिपुघाती भयङ्करः । दुःसहा धर्मदः शान्तः सर्वारिष्टविनाशनः । नमस्ते सर्वतोभद्र ! भद्रदो भव भूपतेः । त्रैलोक्यजयसर्वस्व ! सिंहासन ! नमोस्तु ते ॥" इति पूजामन्त्राः । इयमेव दौहित्रप्रतिपद् । अस्यां मातामहश्राद्धं कार्यम् । तदुक्तं हेमाद्रौ__"जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले । कुर्यान्मातामहश्राद्ध प्रतिपद्याश्विने सिते ॥” इति । अथ कार्तिक शुक्ल प्रतिपत् पूर्वविद्धा ग्राह्या "पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्वलेर्दिनम् ।” इति बृहद्यमोक्तः। अत्रापि तैलाभ्यङ्ग आवश्यक इत्युक्तं दृद्धवसिष्ठेन "वत्सरादा बसन्तादो वलिराज्ये तथैव च । तैलाभ्यङ्गमकुर्वाणो नरकं प्रतिपद्यते ॥” इति । इयं चाभ्यङ्गे सूर्योदयव्यापिनी ग्राह्या । तदुक्तं ज्योतिर्निवन्धे "नन्दायामुदयेऽभ्यङ्गं कृत्वा नीराजनं ततः । सुवेशः सन कथागीतैर्दानैश्च दिवसं नयेत् ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy