________________
तिथ्यर्क:
२८
हेमाद्रौ बलिप्रतिपदुपक्रमे ---
" तस्माद् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवः । तस्मिन् द्यूते जयेो यस्य तस्य संवत्सरं जयः ॥ पराजया विवृद्धश्चेल्लाभनाशकरो भवेत् । दयिताभिश्च सहितैर्नेया सा च भवेन्निशा ||" इति । अत्र कृत्यान्तरं हेमाद्री भविष्ये—
"प्रातर्गोवर्द्धनः पूज्यो द्यूतं चापि समाचरेत् । पूजनीयास्तथा गावस्त्याज्ये वाहनदेहिने ॥ | " पर्वतगवाः पूजामन्त्रौ तत्रैव
"गोवर्द्धन ! धराधार ! गोकुलत्रारणकारक ! | बहुबाहुकृतच्छाय ! गवां कोटिप्रदा भव ॥" “लक्ष्मीर्या लोकपालानां धेनुरूपेण संस्थिता । घृतं वहति यज्ञार्थे मम पापं व्यपोहतु ||" रात्रौ बलिपूजा कार्य्येत्युक्तं हेमांद्री भविष्ये— "कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपति' बलिम् | गृहस्य मध्ये शालायां विशालायां ततोऽचयेत् ॥ लोकश्चापि गृहस्यान्तः शय्यायां शुक्लतण्डुलै: । संस्थाप्य बलिराजं तु फलैः पुष्पैश्च पूजयेत् ॥” पूजामन्त्रः पादमे—
"बलिराज ! नमस्तुभ्यं दैत्यदानववन्दित !
ईशशत्रे ऽमराराते ! विष्णुसान्निध्यदेो भव ||" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com