SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ २४ तिथ्यकः चैत्रकृष्णप्रतिपदि श्वपचस्पर्शो होलिकाविभूतिवन्दनं चूतकुसुमप्राशनं च कार्यमित्युक्तं भविष्योत्तरे "चैत्रे मासि महाबाहो ! पुण्या प्रतिपदा परा। यस्तस्यां श्वपचं स्पृष्ट्वा स्नानं कुर्याद् द्विजोत्तमः ।। न तस्य दुरितं किञ्चिन्नाधयो व्याधयो नृप ! ॥" तथा-"प्रवृत्ते मधुमासे तु प्रतिपत्सु विभूतये ॥ कृत्वा चावश्यकार्याणि सन्तर्प्य पितृदेवताः । वन्दयेद्धोलिकाभूति सर्वदुःखोपशान्तये ॥" विभूतिवन्दने मन्त्रः "वन्दितासि सुरेन्द्रेण वन्दिता शङ्करेण च । अतस्त्वं पाहि नो देवि ! विभूते ! भूतिदा भव ॥” इति । पुराणसमुच्चये-- "वृत्ते तुषारसमये सितपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च । संपाश्य चतकुसुमं सह चन्दनेन सत्यं हि पार्थ ! पुरुषोऽथ समां सुखी स्यात्" ॥ समामिति “कालाध्वनारत्यन्तसंयोगे" इति द्वितीया । कुसुमपाशने मन्त्रः "दूतमयं वसन्तस्य माकन्द ! कुसुमं तव । सचन्दनं पिबाम्यद्य सर्वकार्यार्थसिद्धये ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy