SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः इदं च पूर्वविद्धायामेव कार्यम् "वत्सरादौ वसन्तादौ बलिराज्ये तथैव च । पूर्वविद्वैव कर्तव्या प्रतिपत्सर्वदा बुधैः ॥" इति वृद्धवसिष्ठवाक्यात् । अत्र वेधमाह पैठीनसिः "पक्षद्वयेऽपि तिथयस्तिथिं पूर्वा तथोत्तराम् । त्रिभिर्मुहू विध्यन्ति सामान्योऽयं विधिः स्मृतः ।" इति । उदयानन्तरं स्थिता त्रिमुहूर्ता पूर्वतिथिरुचरतिथिं विध्यति । . अस्तमयात् प्राक्स्थिता त्रिमुहूर्वोत्तरतिथिः पूर्वतिथिं विध्यतीति सामान्यतो वेध इत्यर्थः । हेमाद्रयादिषु तु "उदिते दैवतं भानौ पित्र्यं चास्तमिते रवी । द्विमुहूर्त त्रिरहश्च सा तिथिहव्यकव्ययोः॥" इति विष्णुधर्मोत्तराद् द्विमुहूर्तोऽप्युक्तो वेधः । अस्यार्थः___ भानावुदिते सति यद् द्विमुहूर्त मुहूर्तद्वयं तद् दैवतं देवकर्मयोग्यम्, एवं रवावस्तमितेऽस्तासन्ने सति अस्तमयात्पूर्वं यदह्नः सम्बन्धि त्रिमुहूर्त मुहूर्तत्रयं तत् पित्र्यं पितृकर्मयोग्यम्, तस्मात् तद्वर्तिनी तिथिहव्यकव्ययाग्राह्येत्यर्थः। वस्तुतस्तु "द्विमुहूर्ता न कर्तव्या या तिथिः क्षयगामिनी । द्विमुहुर्तापि कर्तव्या या तिथिद्धिगामिनी ॥" इति दक्षवचनेऽपिकारपाठाद् द्विमुहूर्तत्वमनुकल्पः । ____ अयं वेधः प्रातरेव । सायं तु त्रिमुहूर्ताया एव तिथेः सर्वत्र ग्राह्यत्वाभिधानात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy