________________
रब्धा, दिनकरे तस्य कनिष्ठसूनुना समाप्तिं नीता। मुक्तावलोप्रकाश प्रारिप्सुरयं मत्तमाचरन् श्लोकमिममुपनिबद्धवान"लदनीपादयुगं प्रणम्य पितरं श्रीबालकृष्णाभिवं
भारद्वाज कुलाम्बुधौ विधुमित्र श्रीगौरवस्याम्बुजात् । ज्ञात्वा शेषमतं मितेन वचसा सिद्धान्तमुक्तावली
गूढार्थांस्तनुते यथामति महादेवः परेषां मुदे ॥" कियत्पर्यन्तं तेन विरचितेयं टोकोते जिज्ञासाया प्रकरणावसाने उपमानखण्डं यावत् सर्वत्र-'इति श्रीभारद्वाजकुलाम्बुधि पूर्णचन्द्रबालकृष्णभट्टात्नजमहादेवभट्टविरचिते मुक्तावली प्रकाशे उपमानपरिच्छेदारूप: पञ्चमः परिच्छेदः' इति लिखितमस्ति, तदनन्तरं शब्दखण्डान्ते---'इति श्रीभारद्वाज कुलाम्बुधिपूर्णचन्द्रबालकृष्णभट्टात्मजमहादेवभट्टारब्धे तत्पुत्रदिनकरभट्टप्रपूरिते मुक्तावलीप्रकाशे शब्दपरिच्छेदाख्य: षष्टः परिच्छेदः' इति विन्यस्तमस्ति । गुण निरूपणान्ते तु 'इति श्रीभारद्वाजकुलाम्बुधिपूर्ण चन्द्रबालकृष्णभट्टात्मजमहादेव. भट्टात्मजश्रीमदिनकर विरचिते न्याय सिद्धान्तमुक्तावलीप्रकाशे गुणनिरूपणम्' इन प्रतिपादितं वर्तते । तेन ज्ञायते उपमानखण्डं यावत् साकल्येन महादेवभट्टेन विरचिता, शब्दखण्डस्यापि कियानंशस्तस्यास्तेन विरचित-ततेो मृत्याऽन्येन वा प्रत्यूहव्यूहेन विहतपनो न पारितवान् पृयितुं ताम् । पितृप्रारब्धप्रबन्धस्यापू] जनताक्षतिमीक्षमाणस्तस्य कनीयान् सूनुर्दिवाकरभट्टस्यानुजो दिनकरभट्टस्तां टीकामापूरितवान् । ग्रन्थावसाने दिनकरकृतमङ्गलश्लोकश्चेत्यमस्तिभानु रणम्य परिभाव्य च शास्त्रसारं
मुक्तावली किरण एष पितृप्रदिष्टः । सद्युःक्तभिर्दिनकरण करेण सोऽयं
नीत: प्रकाशपदवी सुधियां मुदेऽस्तु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com