________________
तत्पुत्रो विबुधाधिपः तितितले श्रोशङ्करस्तत्सुतो
जातो भास्करपूजकः पृथुयशा: श्रीनीलकण्ठो बुधः ।। ग्रन्थान्तरेष्वपि मातृवंशवर्णनं न विस्मृतं ग्रन्थकृता। तथाहिआचारार्के तावत्
यद्वाक्याद् विधिवाक्यार्थ-(ना ?)-मपूर्वार्थाभिधातृता ।
नीलकण्ठो जयत्येष मीमांसकधुरन्धरः ॥ इति । दानहीरावलीप्रकाशे च
'जीवेन्द्रारिपुरोहितामलमतिः श्रीनीलकण्ठाभिधः'
इति चतुर्थपादं परिवर्त्य तिथ्योपनिबद्ध एव श्लोकस्तेनोद्धृतः । 'तत्पुत्रीतनया दिवाकरकृती शास्त्रेष्वधीती पितुः' इति तत्सम्बद्धं पादमेकं श्लोकान्तरेऽपि नियुक्तवान्। इति मातृवंशवर्णनसंक्षेपः । ___ स्वान्ववायवर्णनेऽपि नास्ति वाचंयमो ग्रन्थकारः । तेन स्वाभिमन. दिगपि निपुणमुपदर्शितैवास्ति । यया ज्ञायते-विमले भारद्वाजकुले श्रौतस्मार्ताखिलधर्मानुष्ठानपरिपूतस्वान्तः साहित्यामृतसाहित्यसंभृतः कवितालतालवालो भूसुराणामग्रणीर्बालकृष्णभट्टो जनिमलभत । बालकृष्णभट्टोऽस्माकं चरितनायकस्यासीत् पितामहः। तत्पूर्व पुरुषाणामपि नामानि अस्माभिरधिगतानि । तैः कस्मिन् विषये के के ग्रन्था प्रारचिता इति ज्ञातुं प्रयतमानैरप्यस्माभिर्न पारितम् । बालकृष्णभट्टस्य वृद्धप्रपितामहो रामकृष्णभट्टनाम्ना प्रतीत आसीत्, तत्तनुजनु:-बालकृष्णप्रपितामहो माधवभट्टनाम्ना, तत्तनुजन्मा-बालकृष्ण पितामहो नारायणभट्टनाम्ना, तदात्मजो-बालकृष्णपिता महादेव-(प्रथम)-नाम्ना चेति । बालकृष्ण भट्टस्य र नु: महादेवभट्टो ( द्वितीय: ) न्यायनये परी प्रौढिमुपगतस्तदानीन्तननैयायिकेषु प्रथमं स्थानमासादितवान् । तेन न्याय सिद्धान्तमुक्तावल्या न्यायसिद्धान्तमुक्तावलीप्रकाशाख्या टीका-या न्यायसिद्धान्तमुक्तावलोदीपिका, मुक्तावलीप्रकाशः, मुक्तावलीदीपिका, मुक्तावलोकिरणः, दिनकरीयमिति नामभिरपि व्यवहियते-रचयितुमा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com