________________
( ८ )
न
अनेनापि ज्ञायते पितृप्रदिष्ट एकांश एव दिनकरेण विरचितः खलु सम्पूर्णो ग्रन्थ इति । एतेन शर्मण्यदेशीय थोडरपण्डितस्य स्वीये बृहति सूचीपत्रे महादेवभट्टस्य ' 'दिनकर' इति उपनामासीत् तेन स्वपित्रा बालकृष्ण भट्टेन? साकमेषा टीका निर्मिता, श्रत एव दिनकरीयमभिधीयते - इति व्याहृतिर्भ्रान्तिमूलैवेति निर्विवादम् ।
महादेवभट्टस्य ज्येष्ठः सूनुः धर्मशास्त्रसुधानिधे रचयिता दिवाकरभट्टनाम्ना प्रथितिमुपययौ । स एव ग्रन्थस्यास्य रचयिता । तियकयं (यस्यापरं नाम तियर्क प्रकाश इति ) तावदस्ति धर्मशास्त्र सुधानिधेरे को भागः । धर्मशास्त्रसुधानिधेः सन्ति सप्त भागा :- (१) सूर्यादि - पञ्चायतनप्रतिष्ठापद्धति:, ( २ ) तिथ्यर्क:, ( ३ ) आचारार्क:, ( ४ ) श्राद्धचन्द्रिका, (५) दानहीरावली प्रकाश:, (६) प्रायश्चित्तमुक्ता वली, (७) अन्त्येष्टिप्रकाश:, इति । लिखितं चास्ति एतत् ( Catalogue of the Sanskrit Manuscript in the Library of the India Office ) नामनि सूचीपत्रे दानही रावली प्रकाशस्यान्त्यांशनिर्देशान्ते— “श्रीतिथ्यर्काचाराक श्राद्धप्रायश्चित्ते प्रतिष्ठा संस्काराशीचयुक्तो दानप्रन्थेो दिवाकराज्जातः ।। इति ।
ग्रन्थकारोऽयं काशीमधिवसति स्मेत्यत्र नास्ति विवाद: 'मीमांसानयकोविदः पुरभिदः क्षेत्राधिवासी सुधीः' इति प्रतिपादयता प्रन्थकृता दानही रावली प्रकाशे स्वयमेव स्पष्टीकृतोऽयं विषयः ।
च ।
१ - महादेव भट्टदिनकर Son of Balakrishna Bhatta, pupil _of_Nilakantha Bhatta, Nyaya-siddhantmuktawaliprakash or Dinakari, written jointly with his father. (T. Aufrecht Cat. Cat. Part I, page 436)
२ -- बालकृष्ण Father of Mahadeva Bhatta Dinakar, father of Divakar, father of Vaidyanath, composed together with his son Mahadeva Nyaya-siddhantamuktavaliprakash (page 370 )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com