________________
( &)
आत्मनो मातुरभिधेयन्तु बालेति ग्रन्थकृता समाम्नातम्, 'बाल तथा मातरम्' इत्यादिना । प्रस्य सहधर्मिणी उपेति नाम्ना ख्याता आसीदित्यपि वृद्धेभ्यो ऽनुश्रूयते । एतत्सर्व ग्रन्थकृता ग्रन्थादा ग्रन्थान्ते च स्वयं सह पेणावर्णितम्
भारद्वाजकुलेऽमले समभवत् श्रीबालकृष्णाभिधः साहित्यामृतवारिराशिरतुलः सर्वद्विजानां गुरुः । तत्सूनुः प्रथमो मद्दामणिरिव प्रख्यातकीर्तिर्गुणैजता न्यायनये बृहस्पतिसमा नाम्ना महादेवकः ।। तत्पुत्रेण दिवाकरेण विदुषा श्रीनीलकण्ठप्रभादौहित्रेण बुधैः सुधारससमास्वाद्यः परेषां कृते । तिथ्यर्क: क्रियते प्रणम्य पितरं बालां तथा मातरं श्रीकान्तं तपनं श्रियं पशुपतिं वाचं महादेवताम् ॥
आचारार्के तावत्
"महादेवतनूजन्मा भारद्वाजकुलोद्भवः । दिवाकरे। रविं नत्वा ह्याचारार्क तनोत्यसौ ॥
दानही रावली प्रकाशे
૧
“मीमांसानयकाविदः पुरभिदः क्षेत्राधिवासी सुधीः ।" इति । दिवाकर भट्टस्य द्वौ सूनू आस्ताम् । तयेोर्ज्येष्ठः श्रीरामनाम्ना' प्रतीत आसीत्, कनिष्ठस्तु बैजनाथ ( वैद्यनाथ ? ) नाम्ना | तेन तत्कृतग्रन्थेषु अनुक्रमा विरचितः । तिथ्यर्के तावदस्ति लिखितम् - "दिवाकरतनूजन बैजनाथेन ( वैद्यनाथेन ? ) धीमता । खबाणसप्तभूयुक्त १७५० वर्षे माधवसंज्ञके ॥
१ - इथं दिवाकरसुतेन कनीयसा श्रीरामानुजेन गुरुभक्तिपरायणेन । श्रीतातपादरचिते सुजनप्रियेऽस्मिन् ग्रन्थे क्रमा विलिखितः सवितुः प्रसादात् ॥ ( ति० अ० श्लो० १५२ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com