SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ (..) मासि तातकृतग्रन्थेऽनुक्रमः संप्रदर्श्यते । विदुषां सुखलब्भ्यर्थमनया श्लोकमालया ॥” इति । केचन दानचन्द्रिकाकर्ताऽप्ययमेवेति प्रतिपादयन्ति। परन्तु तदज्ञानमूलमेव। यतो दानचन्द्रिकाया दानसङ्क्षपचन्द्रिकाया वा कर्ता दिवाकरभट्टोऽस्ति कालोपनामकः । यद्यपि तस्य पितुरपि नाम महादेवभट्ट एवास्ति, परन्तु तस्य पितामहो रामेश्वरभट्टनामासीत् । । प्रकृतग्रन्थकारस्य तु पितामहो बालकृष्णभट्ट इति प्रतिपादितपूर्वम् । प्रणम्य मातरं गङ्गी भैरवं वनशङ्करम् । महादेवाख्यपितरं श्रौतस्मातविशारदम् ॥ दिवाकरण सुधिया सारमुद्धृत्य शास्त्रतः । शिष्टानां तन्यते तुष्टयै दानसंक्षेपचन्द्रिका ॥ इति दानसक्षेपचन्द्रिकाया मङ्गलाचरणं विलोक्य तममुच दिवाकरमेकं मन्यमानाः तिथ्यर्क निर्मातुर्दिवाकरस्य मातुर्गङ्गेति नामासीदिति च प्रलपन्ति । दिवाकरभट्टस्य मातामही नीलकण्ठभट्टसहधर्मिणी गङ्गेति' नाम्ना प्रसिद्धा आसीत् । माता गङ्गासीदि यत्र तु नास्माभिः प्रमाणमुपलब्धम् , परन्तु तस्या नाम बाला आसीदिति सप्रमाणं पूर्वमुपन्यस्तम् । इण्डियारे आफिसस्य सूचीपत्रे दानचन्द्रिकाया: परिचयदानावसरे 'दाननियमान प्रदर्शयन् लघुग्रन्थोऽयं वाराणसेयस्य कालोपनामकदिवाकरस्य कृतिः। स खलु दिवाकरो महादेवभट्टस्य नीलकण्ठदुहितुर्गङ्गादेव्याश्च सूनुः सम्भवता बालकृष्णभट्टस्य पात्र प्रासीत्' इति १-श्रीभास्कर शिवकरं शिरसा प्रणम्य श्रीनीलकण्ठपितरं जननी च गङ्गाम्। तत्पादचिन्तनबढो बुधशङ्कराख्यः संस्कारभास्करममुं वितनाति काश्याम् । २-Dana-chandrika, a manual of rules, regarding pious donations by Bhatta Dviakara, surnamed Kāle, of Benares, son of Bhatta Mahadeva (sun of Balakri. shna ?) and Ganga ( daughter of Bhatta Nilakantha, author of the Mayukhas.) [I. O. Cat. Part III p. 548] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy