________________
प्रतिपादन श्रीमत्कालोपनामकभट्टरामेश्वरात्मजभट्टमहादेवद्विजवर्यसूनु - दिवाकरविरचिता दान चन्द्रिका समाप्ता' इति ग्रन्थावसानादर्शनमूलक व्यामोह विलसितमेव । तदिदमन्यद्वेदृर्श सूचीपत्रं प्रमाणोकृत्य शर्मण्य. देशीयथोडरमहाशयोऽपि स्वीये बृहति सूचीपत्रे कालोपनामकदिवाकरभट्टरचितानपि ग्रन्थान् भारद्वाजदिवाकरकृतित्वेन यदुपन्यस्तवान्, तदपि भ्रान्तिविज म्भित मेव । ___ कालोपनामकदिवाकरस्य सन्ति तावदिमाः कृतयः- (१) दानचन्द्रिका, (२) आह्निकचन्द्रिका, (३) कालनिर्णयचन्द्रिका, ( ४ ) स्मार्तप्रायश्चित्तं द्वारः ( ५ ) स्मार्तप्रायश्चित्तपद्धति: (६) पतितत्यागविधि: (७) पुनरुपनयनप्रयोग: इति। भारद्वाजदिवाकरकृतिसंहतिस्तु पूर्व निरूपता ।
भारद्वाजभट्टदिवाकरमहोदयेन विरचितेषु ग्रन्थेषु मध्ये कस्यापेक्षया कस्य प्रथमं निर्मितिरभूदिति विचारे प्रस्तूयमाने यद्यपि समेपां पार्वापर्य वक्तुमतीव दु:शकं तथापि तिथ्यर्कपर्यालोचनेन यदवगम्यते तत्प्रदर्श्यते
तिथ्य १३३ तम पृष्टे-'प्रतिष्ठायां विशेषस्तु मत्कृतप्रतिष्ठापद्धती द्रष्टव्यः' 'मत्कृत' इति मतकालनिर्देशात्
'मलमासे श्राद्धं कार्य न वेति विचारो विस्तरेण वक्ष्यते श्राद्धचन्द्रिका प्रकाशे' (तिः पृ० २५२ ) 'विवेचयिष्यते चैतत्स्पष्टं श्राद्धचन्द्रिका प्रकाशे' ( ति० पृ० २६०) इत्यत्र 'वक्ष्यते' 'विवेचयिष्यते' इति भविष्यनिर्देशाच्च प्र तष्ठापद्धतिस्तावदपश्चिमा कृतिस्तिथ्यापेक्षया विपश्चिदपश्चिमन्य अाचारार्क श्राद्धचन्द्रिके च चरमे इति । ___ यद्यपि-'भाजने हात्रिशासनियमस्तु मत्कृताचारार्के द्रष्टव्यः' ( ति० पृ० ४४ ) 'जप दिविधिस्तु मत्कृताचारार्के द्रष्टव्यः' ( तिः पृ० ६३ ) इति आचारार्कस्थापि वाक्यानि तिथ्यर्के समुद्धृतानि, 'मत्कृत' इति भूतकालनिर्देशश्च नमान एव, हेतुनानेन अस्यापि प्राथम्यमनुमातुं शक्यम्, परन्तु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com