________________
( १२ )
श्रीबालकृष्णात्मजसूनुनिर्मिती वर्षे खवेदाश्व हिमांशुसंयुते । कृतिं विलोक्या खिलकालनिर्णयं
निःशङ्कमाशंसतु पण्डितेो जनः ॥ श्री बालकृष्णात्मजसूनुनिर्मितं
"
वर्षे वेदाश्व हिमांशुसंयुते । जनाः प्रकुर्युः किल धर्मकार्यमाचारसूर्य किल संविलोक्य ॥ इति तिथ्यर्काचारार्कयेोरवसितितिथिं स्वयमुपनिबनता ग्रन्थकृता तिथ्यर्कस्य प्राथम्यं स्वमुखता निवेदितम् अता भूतकाल निर्देशमात्रेण तस्य प्राथम्यानुमानमकिश्चित्करम् । 'मत्कृताचारार्के द्रष्टव्यः' इति भूतकालनिर्देशसंगतये तु कियस्तिस्यांशस्तिथ्यर्कनिर्मितेः प्राङ निर्मितः सम्पूर्तिस्तु पश्चाज्जातेत्यूहनीयम् । दानहीरावलीप्रकाश:, अन्त्येष्टिप्रकाशः, प्रायश्चित्तमुक्तावली चैतेषां ग्रन्थानां तिथ्यर्कापेक्षया प्राथम्यमस्ति श्रानन्तर्य वा ? तेषामपि परस्परं कस्यापेक्षया कस्य प्राथम्यं कस्यानन्तर्य्यमिति निर्देष्टुं न पारितमस्माभिः । यतः तिथ्यर्के न तेभ्यो वचनानि कानिचन समुद्धृतानि, न वा ते ग्रन्थाः साकल्येन दृष्टिगोचरीभूताः । अस्ति ग्रन्थकृतोऽस्य अन्याप्येका कृतिर्वृत्तरत्नाकरटीका'वृत्तरत्नाकरादर्श इति । तस्य समाप्तौ स्वाभिजनादिकमुल्लिखता ग्रन्थकृता तत्समाप्तिकालेोऽपि निरूपित:
१- भारद्वाजकुले श्रुतिस्मृतिपदुः श्रीसूर्यभक्तस्तथा विद्याराधनतत्परोऽपि च महादेवो भवत्तार्किकः । तत्पुत्रेण दिवाकरेण रचिते श्रीवृत्तरत्नाकरादर्शे भट्टमतानुसारिणि परं षष्ठः समाप्तिं गतः ॥ इति श्रीभारद्वाजबालकृष्णात्मज महादेव भट्टसूनुदिवाकरकृतेो वृत्तरत्नाकरा
दर्शः सम्पूर्णतामाटीत् (I. O. Cat. Part. II, p. 304 )
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com