________________
( १३ ) पूर्णाब्धिसभकमिते प्रवर्षे सत्कार्तिके मासि विशुद्धपक्षे । तार्तीयपूर्णे दिवसे सुपुण्ये ह्यादर्श इत्थं घटित: समाप्तः ॥ इति । अनेन एकस्मिन्नवाब्दे ( १७४० वैक्रमाब्दे ) तिथ्यको वृत्तरत्नाकरादशश्च कविना पृर्तिमुपनीतावित्यवगम्यते ।
तिथ्यर्कस्य निर्माणकाले ग्रन्थकृतः पञ्चाशद्वर्षासन्नमपि क्यो यदि कल्प्येत, तदाऽस्य जनिर्विक्रमसप्तदशशतकस्यान्ते [ १६६० वि०] समभूदिति आयाति। अयमेवास्य जन्मकाल इत्यभियुक्तेभ्योऽपि श्रूयते । ___ग्रन्थकारोऽयं भगवतो भास्करस्यानन्यभक्त पासीदिति एतत्कृतग्रन्थोपक्रमोपसंहारश्लोकैरवगम्यते। तथाहि तिथ्यर्कोपक्रमे तावद्
'उत्पत्त्यादि प्रकर्तारं हर्तारं तमसः परम् । दातारं सर्वकामानां तं भजेऽहं विकर्तनम् ॥
श्रीकान्तं तपनं श्रियं पशुपति वाचं महादेवताम् ।' इति । उपसंहारे तावद्'क्काहं मन्दमतिः कायं धर्मशास्त्रसुधानिधिः । तस्माद्भर्विलासोऽयं मार्तण्डाङ्घ्रिसरोजयोः ॥' 'तेन श्री विमण्डलान्तरगतो नारायणः प्रोयताम्' । इति । दानहीरावलोमङ्गलाचरणे'पद्मिनीगणविकासकारणं पाकशासनमदिशो विभूषणम् । यज्ञकर्मच्यहेतुमन्वहं भावये द्युमणिदेवमन्वहम् ॥' 'देवं चोष्णकर प्रणम्य तनुते श्रीदानहीरावलिम् ।' इति । आचाराकोपक्रम
'दिवाकर राव नत्वा ह्याचारार्क तनोत्यसो' ॥ इति । वृत्तरत्नाकरादर्शोपक्रम'प्रातर्भूमि रुहान विभज्य पृथिवी प्राप्तांस्तु पारीक्षिका रत्नानां निचयभ्रमेण परितश्चिन्वन्ति यान सर्वदा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com