________________
(१४) कान्तानां कुचमण्डलेषु पतिता वाहीकरूपं गतास्ताभिः पृष्ठतराश्च ते श्रमकरा: सौराः कराः पान्तु माम् ॥'
इत्यादि। 'भारद्वाजकुले श्रतिस्मृतिपटुः श्रीसूर्यभक्तस्तथा' 'जातो भास्करपूजकः पृथुयशा: श्रीनीलकण्ठो बुधः' इत्यादिपद्यद्वयी ग्रन्थकृत्पितरं मातामहञ्च भास्करभक्तमानाति । न खलु एता द्वावेव किन्तु अन्येऽप्यस्य पितृपक्षीया मातृपक्षीयाश्च पूर्वजा असाधारणी सूर्यभक्तिमावहन्ति स्मेति तत्तनिर्मितग्रन्थकदम्बकेभ्योऽवगम्यते ।
दिवाकरसूनुवैद्यनाथोऽपि स्वपूर्वजाननुजगामेति तत्कृततिथ्यकी. नुक्रमसमाप्तिस्थात्
'ग्रन्थे क्रमो विलिखित: सवितुः प्रसादात्' इति श्लोकाशाद् ज्ञायते ।
तिथ्यर्केऽस्मिन् प्रमाणत्वेन येषां ग्रन्थानां वचनानि समुद्धृतानि तेषामकारादिवर्णानुक्रमेणैका सूची ग्रन्थान्तेऽस्माभिः सन्निवेशिता । ततोऽतिरिक्तमपि ग्रन्थकारेण यत्र तत्र स्वमातुलमातामहमातृपितामहमातृप्रपितामहमातृवृद्धप्रपितामहरचितग्रन्थानामपि क्वचिन्नामोल्लेखः, कचिद् वचनचयसंग्रहोऽनुष्ठितः। तथाहि-बोधिनीनिर्णयप्रसङ्ग
'अन्योऽपि विस्तरोऽत्र मातुलकृतव्रतार्के द्रष्टव्यः' (ति० पृ०१५१) सावित्रीव्रतनिर्णये-'प्रत्र सर्वव्रतेषु कथादिकं विस्तरभिया नोक्तम्, तत् श्रीमातुलकृतव्रतार्के द्रष्टव्यम्' (ति० पृ० २०६) इति मातुलकृतप्रन्यनामनिर्देशः कृतः।
प्राश्विनशुलनवमीपारणाविषये-'श्रीमातामहचरणास्तु विधवाया रजोदर्शने भोजननिषेधाभावात् तस्या अपि पारणा भवत्येव । अस्तु निषेधः, स रागप्राप्तभोजननिषेधो न तु वैधः, विधिस्पृष्टे निषेधा. नवकाशात; अन्यथा व्रतहानि: स्यात्, 'पारणान्तं व्रतं ज्ञेयम्' इत्युक्तेः' (ति० पृ० १०१) इति युक्तमुत्पश्यन्तीत्यत्रास्थाप्रदर्शनपूर्वकं वचनचयः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com