________________
( १५ ) संगृहीतः । चैत्र चतुर्दशीव्रत विपये - ' श्रीमातामहास्तु रात्रिव्यापिनीत्येतत्पूर्वविद्धाप मित्यूचुः । तत्र स्पष्टार्थत्वात् रात्रावेव पशुपतीश्वरपूजाविधानात् च पूर्वमतमेव युक्तमाभाति' ( ति० पृ० १७८) इति अत्र तन्मतानुपादेयता प्रतिपादिता । तयाहश्राद्धविनिर्णये --' माधवादयस्तु उत्तरतिथिगतावेव वृद्धिक्षया ग्राह्यौ, न ग्राह्यतिथिगतावित्याहुः । श्रीमातामहगुरवस्तु- - रमवृद्धानन्तरमाकस्मिकक्षयस्य ज्योतिःशास्त्रमर्यादया सम्भवात् पूर्वतिथ्यपेक्षया ग्राह्यतिथिगतावेव वृद्धिक्षया ग्राह्याविति तत्त्वमित्याहु: । (ति० पृ० २६४) मत्रार्थता मातामहमतस्य सिद्धान्तपक्षताऽङ्गीकृता । 'अन्न शान्तिः मातामहकृतशान्तिमयूखे द्रष्टव्या' । ( ति० पृ० ११८ ) इति ग्रन्थनामल्लिखितम् । नृसिंह जयन्तं निर्णये—
अत्रान्मातुः पितामहचरणा:
नृसिंहपुराणे सामान्यतः काल उत्पत्तेरुक्तः, 'विवस्वत्यरस्तंगामिनीति घटिका परिमाणानुक्तेः । तस्य स्कान्देन निर्णयः । तत्र - हि प्रदोष उपात्तः । तल्लक्षणश्च हेमाद्रावुक्तम्
'त्रि मुहूर्त्तः प्रापः स्याद् भानावस्तं गते सति ।' इति । तस्यापि सङ्कोचो भविष्यपुराणेन, तत्र सायङ्काल इत्युक्तेः ।
'नक्षत्रदर्शनात् सन्ध्या सायं तत्परतः स्थितम्' । इति । अत्र यद्यपि सायं वदेन परोऽवधिर्न लभ्यते, तथापि प्रदोषशब्देन परावधिलाभात् स यंशब्देन च पूर्वावधिलाभात् त्रिघटिकात्मकसायंसन्ध्योर्ध्वघटिकात्रयं प्रदोपसायंशब्दाभ्यां परस्परं विशेषणाल्लभ्यते जन्मकालत्वेनेति तत्कालव्यापिनी नृसिंहचतुर्दश्युपोष्येति राद्धान्तमाहुः । ( ति० पृ० १८० । इति वचनचयसंग्रहः । अत्रैव मतस्यास्य स्वाह्लादहतुत्वं परमश्लाघ्यत्व चाह ग्रन्थकारः
अयं प्रकामं प्रियदर्शनत्वाद्
विनिर्णयो मे रुचये बभूव ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com