SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ( १६ ) निशीथिनीनाथ इवोदितो ऽसौ प्रभाकर: पूर्णकलो नलिन्याः ॥ इति । प्रयागस्नानप्राशस्त्यप्रतिपादनप्रसङ्गे–भत्र विशेषस्त्वस्मन्मातृप्रयाग सेतोरवगन्तव्य प्रपितामहभट्ट श्रीनारायण पदपाथेोजलिखितात् इति प्रचुरास्थाप्रदर्शनपूर्वकं ग्रन्थनामनिर्देशः कृतः । इति । स्वमातामहस्य भ्रातुः ( पितृव्यसूना: ) श्रीकमलाकर भट्टस्यापि 'सिन्धुकारज्येष्ठपदेन निर्देशः कृतः । यथा रामनवमीव्रतनिर्णयप्रसङ्गे– यत् सिन्धुकारज्येष्ठैर्नित्यत्वमङ्गीकृत्य 'वस्मात् सर्वात्मना सर्वैः कार्यम्' इत्युपक्रम्य अत्र केवलशैवस्य केवलकृष्णभक्तस्यापि नाधिकार इत्युक्तम्, तदुपक्रमेोपसंहार विरोधात् प्रमाणाभावाच्चोपेक्ष्यम् । ( ति० पृ० १८२ ) यत सिन्धुकारैर्वचनमलेखि “भास्करोदयमारभ्य यावत्तु दश माडिकाः । प्रातः काल इति प्रोक्तः स्थापनारोपणाविधौ ॥" इति विष्णुधर्मोतम, तन्महानिबन्धेष्वसत्त्वाद् भ्रान्तिमूलकमेव । ( ति० पृ० १२) दशहराप्रसङ्गे यत्त्वत्र उक्तयोगेभ्यो न्यूनयोगे न स्नानमित्युक्तं सिन्धुकार ज्येष्ठैस्तत्प्रमाणाभावादुपेच्यम् ( ति० पृ० १०८ ) । इत्यादि । सर्वत्र खण्डनदर्शनात्खण्डनायैवापात्तवान् तद्वाक्यानि न प्रमाणत्वेनेापन्यासायेति विज्ञापते । खण्डनमिदं विलेाक्य केचनामनन्ति ग्रन्थकृतोऽस्य सिन्धुकारे नासीदास्येति । श्रलमप्रस्तुतेन । ग्रन्थान्वे स्वाहङ्कारं परिहरन्नभिहितवान् ग्रन्थकारःउक्तं नात्र मया स्वयं स्वरचितं यद्भट्ट पादादिभिः प्रोक्तं कालविनिर्णये तदखिलं स्पष्टं परज्ञप्तये । सन्दिष्टं गुरुदत्तमन्त्रकृपया शार्दूलविक्रीडित Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy