________________
( १७ )
तेन श्रीरविमण्डलान्तरगतो नारायणः प्रीयताम् । इति ।
के सन्ति ते भट्टपा दादयो याननुसृत्य कृतोऽयं ग्रन्थ इति जिज्ञासायाम् 'विभाव्य मातामहसम्प्रदायं जन्माष्टमीनिर्णयमातनामि ।'
इति जन्माष्ट नीनिर्णयारम्भपद्य संदर्शनात्, 'श्रीमातुलकृतव्रतार्क' द्रष्टव्य : ' ' श्रीमात महकृतशान्तिमयूखे द्रष्टव्यः' इत्यादिवाक्य कदम्बदर्शनात्, अन्यस्य तादृशातिप्रसिद्धस्य भट्टस्य प्रकृतग्रन्थे समुल्लेखाभावाच्च स्वमातृपतीयाः श्रीनीलकण्ठभट्टादय एव भट्टपादादिपदेन ग्रन्थकारण निर्दि इति स्पष्टम् ।
ग्रन्थस्यास्य सशोधनाधारभूता एकैव मातृका । सा च सरस्वती - भवनग्रन्थागारात् श्रीकाशिकराजकीय संस्कृत पाठशालाप्रधानाध्यक्षाणां तत्रभवतां पण्डित प्रवरगोपीनाथ कविराज एम० ए० महोदयानामनुकम्पयाऽधिगता । तैरनुकम्पयाऽनया भृशमनुगृहीताः कृतज्ञतापूर्वकं सप्रश्रयं साधुवादशतैस्तान् संयोजयामः ।
मातृकायास्तन्या: क्वचित् कचिदस्पष्टाक्षरतया अशुद्धप्रायतया च पदे पदे लेशतः क्लेशमावहन्तो वयं निर्णय सिन्धुकालमाधव हेमाद्रिष्वपि समुद्धृतानि तान्ये । वचनानि दर्श दर्श मूलपाटं शोधयितुं प्रायतिमहि । कचित्तु मूलग्रन्यैक्येऽपि निर्णयसिन्धुसमुद्धृतवचनापेक्षया तिथ्यर्कसमुद्धृतवचनेषु वैलक्षण्यं नयनगोचरीभूतम्, परन्तु सत्र लेखकप्रमादमङ्गीकृत्य विभिन्नसकल संस्करणसंवादी निर्णयसिन्धुपाठ एव प्रामाणिकत्वे कृताऽस्माभिः ।
इत्थं सपरिश्रमं परिशोधितेऽप्यस्मिन् ग्रन्थे सर्वथा नास्ति स्खलितानामभावः । अताऽभ्यर्थ्यन्ते गुणैकपक्षपातिनो मनीषिणो यदत्र मदीयदृष्टिदोषेण आयनाक्षर संयोजकानामनवधानतया अनभिनवतया चायसाक्षराणां जातानि स्खलितानि संक्षम्य अनुगृह्णन्तु जनमिममिति शम् । काशी
}
अक्षयतृतीया स० १९८६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
सतामाश्रवः
श्रीकृष्णपन्तः
www.umaragyanbhandar.com