SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ तिथ्यः पेक्षणात् । पूर्वेधुरेवापराव्यापिनी चेत्, सैव ग्राह्यत्याह माधवीये हारीतः 'यस्यां सन्ध्यागतः सेामो मृणालमिव दृश्यते । अपराह्ने तु या तस्यां पिण्डानां करणं ध्रुवम् ॥” इति । यत्तु कार्णाजिनिवचः "भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा। श्राद्ध कर्मणि ये कुयु स्तेषामायुः प्रहीयते ॥” इति, तदपराडव्याप्तिविषयमिति माधवः । 'अपराह्न। चतुर्दशीवेधपरम् " इति हेमाद्रिरुवाच । द्वितीयेऽति चेतादृशी, द्वितीयैव इत्याह स एव "अपरालः पितृणान्तु याऽपराह्मानुयायिनी । सा ग्राह्या पितृकार्ये तु न पूर्वाऽस्तानुयायिनी ॥" इति । दिनद्वयेऽपराह्णव्याप्तिधा-एकदेशेन कात्स्न्येन चेति । एकदेशव्याप्तिरपि द्वेधा भिद्यते-वैषम्येण साम्येन चेति । तत्र वैषम्येणैकदेशव्याप्तौ महत्त्वं निर्णायकम् । तथा च माधवीये स्मृत्यन्तरे "अपराद्वयव्यापिन्यमावास्या यदा भवेत् । तत्राल्पत्वमहत्त्वाभ्यां निर्णयः पितृकर्माणि ॥" इति । शिवराघवसंवादेऽपि "अल्पाऽपराल त्याज्या सा ग्राह्या स्यादधिका भवेत् ।" इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy