________________
२६२
तिथ्यर्कः साम्येनैकदेशव्याप्ती खर्वादिशास्त्रं निर्णायकम् । खर्वादिशास्त्रं तु
"खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् ।
खर्वी परौ पूज्या हिंसा स्यात् पूर्वकालिकी ॥” इति । खर्वः साम्यम्, दर्पो वृद्धिः, हिंसा क्षयः । माधवीये शिवराघवसंवादेऽपि
"अमावास्या तु या हि स्यादपरालद्वयेऽपि सा।
क्षये पूर्वाऽपरा वृद्धौ साम्येऽपि च परा स्मृता ।।" इति । स्मृत्यन्तरेऽपि
"तिथिक्षये सिनीवाली तिथिद्धौ कुहूर्मता ।
साम्येऽपि च कुहूर्जेया वेदवेदाङ्गवेदिभिः ॥” इति । कात्स्न्ये नोभयत्रापराह्णव्याप्तावपि तिथिवृद्धित्वात् कुहूरेव ग्राह्या । दिनद्वयेऽपरालव्याप्तौ जाबालि:
"अपराह्णद्वयव्यापी यदि दर्शस्तिथिक्षये ।
आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता ॥” इति । श्रादिशब्देन स्त्रीशूद्रौ गृह्यते। तथा च लौगाक्षिराह
"द्विजैः कार्या सिनीवाली साग्निकैः पितृकर्मणि ।
स्त्रीभिः शूद्रैः कुहूईया तथा चानग्निकैर्द्विजैः ॥” इति । सिनीवालीकुहोर्लक्षणमाह व्यासः
"दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्मता ।" इति । एतदर्थपराण्यन्यानि वचनानि ग्रन्थविस्तरभियेह नोपात्तानी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com