SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २६२ तिथ्यर्कः साम्येनैकदेशव्याप्ती खर्वादिशास्त्रं निर्णायकम् । खर्वादिशास्त्रं तु "खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् । खर्वी परौ पूज्या हिंसा स्यात् पूर्वकालिकी ॥” इति । खर्वः साम्यम्, दर्पो वृद्धिः, हिंसा क्षयः । माधवीये शिवराघवसंवादेऽपि "अमावास्या तु या हि स्यादपरालद्वयेऽपि सा। क्षये पूर्वाऽपरा वृद्धौ साम्येऽपि च परा स्मृता ।।" इति । स्मृत्यन्तरेऽपि "तिथिक्षये सिनीवाली तिथिद्धौ कुहूर्मता । साम्येऽपि च कुहूर्जेया वेदवेदाङ्गवेदिभिः ॥” इति । कात्स्न्ये नोभयत्रापराह्णव्याप्तावपि तिथिवृद्धित्वात् कुहूरेव ग्राह्या । दिनद्वयेऽपरालव्याप्तौ जाबालि: "अपराह्णद्वयव्यापी यदि दर्शस्तिथिक्षये । आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्मता ॥” इति । श्रादिशब्देन स्त्रीशूद्रौ गृह्यते। तथा च लौगाक्षिराह "द्विजैः कार्या सिनीवाली साग्निकैः पितृकर्मणि । स्त्रीभिः शूद्रैः कुहूईया तथा चानग्निकैर्द्विजैः ॥” इति । सिनीवालीकुहोर्लक्षणमाह व्यासः "दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्मता ।" इति । एतदर्थपराण्यन्यानि वचनानि ग्रन्थविस्तरभियेह नोपात्तानी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy