SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः २६३ त्यलं पल्लवितेन । अथ पिण्डपितृयज्ञकालः। आश्वलायन: "अमावास्यायामपराह्न पिण्डपितृयज्ञः।" इति । अत्र नारायणवृत्तिः-अमावास्याशब्दः प्रतिपत्पश्चदश्योः सन्धिवचनोऽप्यत्रापराह्णशब्दसमन्वयात् तद्वत्यहोरात्रे वर्त्तते । तस्यापराह्ण चतुर्थे भागे पिण्डपितृयज्ञः कार्यः। औपवस्थ्ये यजनीये वाऽहनि यदा त्वहोरात्रसन्धौ तिथिसन्धिः स्यात् , तदोपवस्थ्य एवाऽहनि क्रियते इति । अत एव प्रयोगपारिजातकारः "मुहूर्त्तमप्यमावास्या प्रतिपद्यपि चेद्भवेत् । तदिन्नमक्षयं ज्ञेयं पर्वशेषं तु पर्ववत् ॥" इति हेमाद्रिधृतं हारीतवचन पिण्डपितृयज्ञपरमयोजयत् । अयं च पिण्डपितृयज्ञ: स्मार्ताग्निमता मृतपितृकेण यागपूर्व दिने क्रियमाणे दर्शश्राद्धव्यतिषङ्गण कार्यः,"आहिताग्निः पिण्डपितृयज्ञं कृत्वा करोति । अनाहिताग्निस्तु तदितरेण व्यतिषज्यते ।" इति परिशिष्टात् । व्यतिषङ्गो नाम श्राद्धपितृयज्ञयोर्विच्छिद्याविच्छिद्य अनुष्ठानविशेषः । यागदिने क्रियमाणस्तु केवलः कार्यः, पूर्वदिने दर्शश्राद्ध यागदिने केवलः पितृयज्ञ इति भावः। आपस्तम्बानामाश्वलायनवनिर्णयः तथैवापस्तम्बस्मृतेः । कात्यायनबौधायनैर्यागात्पूर्वेऽहनि कार्यः, तथैव तत्सूत्रे प्रतिपादितत्वात् । इत्यन्यत्र विस्तरः । अथ क्षयाहश्राद्धकालो निर्णीयते । तत्र क्षयाहश्राद्धमेकोद्दिष्ट Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy