________________
२६०
तिथ्यर्कः असंस्कृताभे न दिनद्वयेऽपि
पूज्या परा या भवतीह तन्त्रम् ॥” इति । उभयदिनेऽपि नक्षत्रयोगेऽपि परा, पूर्वोक्त- "युगाद्या वर्षवृद्धिश्च" इति-भविष्यवचनात् । इति श्रीमद्भारद्वाजमहादेवभट्टात्मजदिवाकरविरचिते तिथ्यर्के जन्मतिथिकृत्यम् ॥ अथ श्राद्धामावास्या निश्चीयते । साऽपराह्वव्यापिनी ग्राह्या,
"पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीयेऽशे नातिसन्ध्यासमीपतः ।।" इति कात्यायनोक्तः।
पिण्डानां पिण्डपितृयज्ञाङ्गभूतानामनु पश्चादाहियते क्रियते इति पिण्डान्वाहार्यक्रममाश्राद्धम् । राजनि चन्द्रे क्षीणे मार्तण्डमण्डलं प्रविष्टे सति वासरस्य दिवसस्य तृतीयेंऽशेऽपराह्णरूपे शस्यते-कार्यमित्यर्थः ।
"दर्शश्राद्धं तु यत्रोक्तं पार्वणं तत्प्रकीर्तितम् । अपराले पितणां च तत्र दान प्रशस्यते ॥"
इति शातातपोक्तश्च । अत्र यद्यपि च त्रेधाविभागाभिप्रायेण पराङ्गकालो व्याख्यातः, तथापि त्रिमुहूर्तात्मकसायाह्ने श्राद्धनिषेधात् पञ्चधाविभक्तदिवसाभिमायेण अपराहो बोद्धव्य इति तत्त्वम् । विवेचयिष्यते चैतत् स्पष्टं श्राद्धचन्द्रिकाप्रकाशे । त्रेधाविभागपक्षस्तु श्राहिताग्निविषयः, तस्य कर्मद्वयानुरोधदीर्घापराला
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com