SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ तिम्पर्क: १५८ मार्कण्डेयं नरो भक्त्या पूजयेत्प्रयतस्तथा।" इति । "ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं बलिम् । प्रह्लादं च हनूमन्त विभीषणमथाऽर्चयेत् ॥" पूजितदेवतानां नाममन्त्रैर्हामः कार्यः । होमसंख्या देवीपुराणे 'हामो ग्रहादिपूजायां शतमष्टोत्तरं भवेत् । अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते ॥" होमद्रव्यमाज्यम्, "आज्यं द्रव्यमनादेशे” इत्युक्तत्वात् । मार्कण्डेयप्रार्थना कृत्यचिन्तामणौ । "मार्कण्डेय ! महाभाग ! सप्तकल्पान्तजीवन ! । आयुरिष्टार्थसिद्धयर्थमस्माकं वरदो भव ॥” इति । ततो गुडतिलयुतं पयः पिबेत् । पाने मन्त्रः "सतिलं गुडसंमिश्रमञ्जल्यर्द्धमितं पयः । मार्कण्डेयवरं लब्ध्वा पिबाम्यायुष्यहेतवे ॥" 'पय क्षीरम् । जन्मतिथौ वानि उक्तानि स्कान्दे "खण्डन नखकेशानां मैथुनाध्यानमेव च । आमिषं कलहं हिंसां वर्षद्धौ विवर्जयेत् ॥” इति । इदं मलमासे न कार्यम् , पूर्वोक्त-"स्पष्टमासविशेषाख्य" इतिवचनात् । जन्मतिथेः खण्डत्वे सति निर्णयः देवीपुराणे"घस्रद्वये जन्मतिथिर्यदा स्यात् पूज्या तदा जन्मभसंयुता च । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy