SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २५८ तिथ्यर्क: अत्र विशेषमाह हेमाद्रौ प्रचेताः -- “सार्षपं गन्धतैलं च यत्तैलं पुष्पवासितम् । अन्यद्रव्ययुतं तैलं न दुष्यति कदाचन ||" इति । तस्मात्तैलाभ्यङ्गनिषेधस्तिलतैलाभ्यङ्गनिषेधपर्यवसायी । हेमाद्रौ स्कान्दे "शिरः कपालमन्त्राणि नखचर्मतिळांस्तथा । एतानि क्रमशो नित्यमष्टम्यादिषु वर्जयेत् ॥” इति । 'शिरः' नारिकेलम्, 'कपालम्' अलाबु, 'अन्त्राणि' पटोलम्, 'नखम् ' निष्यावः, 'चर्म' मसूरिका । " शिरो नारिकेलम्, कपालमलाबु, अन्त्राणि पटोलम्, नखं निष्यावः, चर्म मसूरिकाः, तिला वृन्ताकम् ।" इति हेमाद्रिः । मदनरत्ने स्कान्दे "स्नानं चैव महादानं स्वाध्याय पितृतर्पणे । प्रथमेऽब्दे न कुर्वीत महागुरुनिपातने ।।" इति । 'स्नानम्' काम्यम् । अथ जन्मतिथिकृत्यम् । ब्रह्मपुराणे - " सर्वैश्च जन्मदिवसे स्नातैर्मङ्गलपाणिभिः । गुरुदेवाश्च विप्राश्च पूजनीयाः प्रयत्नतः || ” इति । 'सर्वैः' ब्राह्मणक्षत्रियवैश्यशूद्रैः । श्रीपतिमालायाम् - "नववस्त्रधरो भूत्वा पूजयेच्च चिरायुषम् । द्विभुजं जलं सैम्यं सुद्धं विरजोविन ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy