SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: विस्तरस्तु हेमाद्रिमाधवादी द्रष्टव्य इति दिकू । वर्ज्यानि । हेमाद्रौ मनुः - “चतुर्दश्यष्ट मीदर्शपैार्णमास्यर्कसंक्रमः । एषु स्त्रीतैलमांसानि दन्तकाष्ठानि वर्जयेत् ॥” स्मृतिसमुच्चये "सायं संध्यां परान्नं च परभोजनमैथुने । तैलं मांस शिलापिष्टममावास्यां विवर्जयेत् ॥ सूर्यऋक्षं गते सामे परान्नं यो हि भक्षयेत् । तस्य मासगतं पुण्यं यस्यान्नं तस्य तद्भवेत् ॥ अमावास्यासु सर्वासु नवं वस्त्रं न धारयेत् ।" इति । प्रसंगादन्येषां पदार्थानां निषेधकालः प्रदर्श्यते । व्यासः - “षष्ठयष्टमी श्रमावास्या पक्षद्वयचतुर्दशी । संनिहितं पापं तैले मांसे क्षुरे भगे ।" रविवारादिषु तैलस्नानफलान्याह स एव " श्रादित्यादिषु वारेषु तापः कीर्तिमृ तिर्धनम् । दारिद्र्यं दुर्भगत्वं च कामाप्तिः स्नानतः क्रमात् ॥” 'स्नानतः' अभ्यङ्गस्नानतः । तथा ――――――――――― २५७ अथ पर्व " त्रयोदश्यां तृतीयायां प्रतिपदशमीदिने । तैलाभ्यङ्गं न कुर्वीत स्पृशेद्वा नवमीदिने || " ३३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy