SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क : ३८ सा तत्र पूर्वविद्धा बाह्या, "बृहत्तल्पा तथा रम्भा सावित्री वटपैत्रिकी । कृष्णाष्टमी च भूता च कर्तव्या संमुखी तिथिः || ” इति स्कान्दात् । संमुखी सायाहव्यापिनी पूर्वविद्धेति यावत् । भाद्रकृष्ण तृतीयायां विशालाक्षी यात्रा कार्या । रात्रौ जागरणविधानादियं रात्रिव्यापिनी ग्राह्या । तदुक्तं काशीखण्डे "मातृतीयायामुपवासपरैनृभिः । कृत्वा जागरण रात्रौ विशालाक्षीसमीपतः ॥” इति । इयमेव कज्जली, "स्वकज्जली कृष्णा शुक्ला च हरितालिका ॥” इति दिवेदासेोदाहृतवचनात् । भाद्रशुक्ल तृतीया हरितालिका, पूर्वोक्तवचनात् । इयं मुहूर्तमात्रापि गौरी व्रतत्वात् परयुता ग्राह्या, " मुहूर्तमात्रत्वsपि दिने गौरीवतं परे ||" इति माधववचनात् । इयं मन्वादि, वक्ष्यमाणवचनात् । आश्विन कष्णतृतीयायां ललितादेच्या यात्रोक्ता काशीखण्डे "ईशकृपण तृतीयायां ललितां प्रतिपूज्य वै । नारी वा पुरुषो वापि लभते वाञ्छितं फलम् ॥” इति । अत्र गणयुक्ता यावा, 'रम्भाख्यां वर्जयित्वैकाम्' इति पूर्वमुक्तत्वात् । तृतीया भॉमेन सिद्धा, बुधेन विरुद्धा । अस्यां योगिन्याग्नेव्याम् । इति तृतीया निर्णीता । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy