________________
विथ्यर्कः अथ चतुर्थी निणीयते । सा परविद्धा ग्राद्या, युग्मवाक्यात् । उपवासेऽपि परैव,
"एकादशी तथा षष्ठी अमावास्या चतुर्थिका ।
उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः।।" इति माधवीयवृद्धवसिष्ठवाक्यात् । विनायकवते तु तृतीयायुतैव । तदुक्तं मदनरत्ने ब्रह्मवैवर्ते
"चतुर्थी तु तृतीयायां महापुण्यफलप्रदा । कर्तव्या व्रतिभिर्वत्स ! गणनाथसुतोषिणी ॥" इति ।
चैत्रशुक्लचतुर्थी विघ्ननाशिनी। तत्र लड्डकैर्गणेशं पूजयेदित्युक्तं निर्णयामृते देवीपुराणे चतुर्थीप्रकरणे
"गणेशं कारयेत्पूजां लड्डुकादिभिरादरान ।
चतुर्थी विघ्ननाशाय सर्वकामार्थसिद्धये ॥” इति । गणेशमिति षष्ठ्यर्थे द्वितीया। ज्येष्ठशक्लचतुथ्यों स्त्रीभिः सौभाग्यदृद्धये उमा पूज्येत्युक्तं भविष्ये
"ज्येष्ठशुक्लचतुझं तु जाता पूर्वमुमा सती । तस्मात्सा तत्र सम्पूज्या स्त्रीभिः सौभाग्यवृद्धये ॥” इति ।
अत्र सामान्यनिर्णयः । श्रावणकष्णचतुर्थी सङ्कष्टचतुर्थीत्युच्यते । तदुक्तं स्कान्दे
"श्रावणे बहुले पक्षे चतुर्थी च विधूदये ।
तस्मिन् दिने व्रतं कार्य संकष्टाख्यं सुरेश्वरि ! ॥” इति । श्रावणावामान्तो ज्ञेयः, चान्द्रमासस्य मुख्यत्वात् । विधुश्चन्द्रः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com