SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः इयमेव परशुरामजयन्ती। सा प्रदोषव्यापिनी ग्राह्या । तदुक्तं स्कान्दे "वैशाखस्य सिते पक्षे तृतीयायां पुनर्वसौ । निशायां प्रथमे यामे रामाख्यः स महाहरिः ॥ स्वोच्चगैः सद्ग्रहैर्युक्ते मिथुने राहुसंयुते । रेणुकायास्तु यो गर्भादवतीर्णो हरिः स्वयम् ॥” इति । दिनद्वये तद्व्याप्ती तूत्तरा। अन्यथा पूर्वेव । तदुक्तं भविष्ये "शुक्ला तृतीया वैशाखे शुद्धोपोष्या दिनद्वये । निशायां पूर्वयामे चेदुत्तराऽन्यत्र पूर्विका ॥” इति । दिनद्वये निशायामित्यन्वयः। यदा वैशाखे मलमासस्तदा युगादिप्रयुक्त कार्य मल एव कर्त्तव्यम्, "दशहरासु नोत्कर्षश्चतुर्वपि युगादिषु ।" इति ऋष्यशृङ्गवचनादिति हेमाद्रयादयो वदन्ति । स्मृतिचन्द्रिकायां विशेषः "योगादिकं मासिकं च श्राद्धं चापरपक्षिकम् । मन्वादिकं तैर्थिकं च कुर्यान्मासद्वयेऽपि च ॥ इति । आपरपक्षिक कृष्णपक्षसम्भवं न तु महालयश्राद्धम्, 'न कुर्याद्भानुलखितः' इत्यादिना तनिषेधात् । ज्येष्ठशुक्लतृतीयायां रम्भाव्रतमुक्तं माधवीये भविष्ये"भद्रे ! कुरुष्व यत्नेन रम्भाख्यं व्रतमुत्तमम् । ज्येष्ठशुक्लतृतीयायां स्नाता नियमतत्परा ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy