SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः "आवर्तनाच पूर्वाह्नो ह्यपराह्नस्ततः परः ॥” इति । दिनद्वये तत्त्वे परैव । 'युगाद्या वर्षद्धिश्च' इति वक्ष्यमाणवचनात्, श्राद्धेऽपि शुक्ला पूर्वाह्नव्यापिनी ग्राह्या, “पूर्वाह्ने तु सदा ग्राह्याः शुक्ला मनुयुगादयः । देवे कर्माणि पित्र्ये च कृष्णे चैवापरालिकाः ॥" इति गारुडात् । युगादिमन्वादिश्राद्धेषु शुक्लपक्ष उदयव्यापिनी तिथिह्या, कृष्णपक्षेऽपराह्णव्यापिनीति स्मृत्यर्थसाराच्च । अत्र पितृप्रीत्यर्थ यम्भदानमुक्त समयमयूखे देवीपुराणे "तृतीयायां ९ वैशाखे रोहिण्यः प्रपूज्य तु । उदकुम्भप्रदानन शिवलोके महीयते ॥" कुम्भदाने मन्त्रः-- "एष धर्मघट: दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदाना इ तृप्यन्तु पितरो हि पितामहाः ॥ गन्धोदकतिलैर्मिश्रं सान्नं कुम्भं सदक्षिणम् । पितृभ्यः सम्भदास्यामि अक्षय्यमुपतिष्ठतु ।।” इति । एतदसम्भवे गोविन्दार्णवे विष्णुपुराणे "पानीयमप्यत्र तिलैविमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्र रहस्यमेतन्मुन यो वदन्ति ॥” इति । अस्यां त्रिलोचनयात्रोक्ता काशीखण्डे "राघशुक्लतृतीयायां स्नात्वा पैलिप्पिले ह्रदे।। सन्तर्पयेत् पितन देवान् त्रिलोचनमथार्चयेत् ॥” इति । www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy