SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः यदा तूत्तरदिने स्वल्पापि तृतीया न लभ्यते, तदा द्वितीयाविदैव कार्या "एकादशी तृतीया च षष्ठी चैव त्रयोदशी। पूर्वविद्धैव कर्तव्या यदि न स्यात्परेऽहनि ॥" इति वृद्धवसिष्ठोक्तः। अत्र सौभाग्यवतमुक्तं मात्स्ये "वसन्तमासमासाद्य तृतीयायां जनमिये !। सौभाग्याय सदा स्त्रीभिः कार्य पुत्रसुखेप्सुभिः ॥” इति । मत्स्यजयन्त्यपीयमेव, “मत्स्योऽभूद्धतभुग्दिने मधुसिते" इति वाक्यात् । वैशाखशुक्लतृतीयाऽक्षयतृतीयोच्यते । तदुक्तं भविष्ये "या त्वेषा कुरुशार्दूल ! वैशाखे तु महातिथिः । तृतीया साक्षया लोके गीर्वाणैरभिवन्दिता ।। यत्किश्चिद्दीयते दानं स्वल्पं वा यदि वा बहु । तत्सर्वमक्षयं यस्मात्तेनेयमक्षया स्मृता ॥” इति । इयं युगादिः। सा पूर्वाह्नव्यापिनी ग्राह्या । तदुक्तं नारदीये "द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः । शुक्ले पौर्वाह्निके ग्राह्ये कृष्णे चैवापराह्निके ॥” इति । वैशाखशक्लतृतीया कार्तिक शुक्लनवमीति शुक्लयुगादी, भाद्रकृष्णत्रयोदशी माघमासस्यामेति द्वे. कृष्णयुगादी। प्रमाणवचनं तु नवमीप्रकरणे वक्ष्यते । अत्र पूर्वाहापराह्मशब्दाभ्यां द्वेधा विभागः प्रतीयते । स च स्कान्दे दर्शितः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy