SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः 'गण' चतुर्थी। युग्मवाक्यन्तु रम्भाविषयं सर्वविषयत्वे तूदाहृतवचनविरोधस्तरभाद्रम्भाव्रत एव पूर्वा, अन्या सर्वाप्युत्तरैव । उपवासेऽप्ययमेव निर्णयः। तदुक्तं विष्णुधर्मोत्तरे "एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी । अमावास्या लुतीया च ता उपोष्या परान्विता ॥" इति । चैत्र शुक्लतृतीयायां दोलोत्सव उक्तो रामार्चनचन्द्रिकायां गारुडे "चैत्रे मासि सिते पक्षे तृतीयायां रमापतिम् । दोलारूढं सनभ्यर्च्य मासमान्दोलयेत्कलौ ॥” इति । गौरीतृतीया इयमेव । अस्यां गौरीमीश्वरयुतां सम्पूज्य दालोत्सवं कुर्यात् । तदुक्तं देवीपुराणे "तृतीयायां पजेदेवीं शङ्करण समन्विताम् । आन्दोलयेत्तता वत्स ! शिवया सहितं शिवम् ॥” इति । अस्यामेव मदनरल कालोत्तरे गौरीव्रतमुक्तम " चैत्र शुक्लतृतीयायां व्रतं गौर्याः समाचरेत् ॥” इति । अत्र मुहूर्तमात्रापि परा ग्राह्या । तदाह माधवः "मुहूर्तमात्रसत्त्वेऽपि दिने गौरीव्रतं परे । शुद्धाधिकायामप्येवं गणयोगप्रशंसनात् ॥” इति । स्कान्देऽपि "कला काष्टापि वा चैव द्वितीया संप्रदृश्यते । सा तृतीया न कर्तव्या कर्तव्या गणसंयुता ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy