________________
तिथ्यर्क :
स्वर्णालङ्कारवस्त्रान्नपूजासत्कार भोजनैः ।
सर्व भगिन्यः सम्पूज्या अभावे प्रतिपन्नका ॥” इति । प्रतिपन्नका मता भगिन्य इति हेमाद्रिरूचे ।
ब्रह्माण्डेऽपि --
३४
" या तु भोजयते नारी भ्रातरं युग्मके तिथौ । अर्चयेच्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात् ॥ भ्रातुरायुः क्षयेो राजन् न भवेत्तस्य कर्हिचित् ।” चैत्र कृष्ण द्वितीयायां काममहोत्सव उक्तो भविष्ये -
" ततः प्रातर्द्वितीयायां पुत्रमित्रादिसंयुतः । नृपतिर्वितते देशे वितानवरशोभिते ||
नृत्यगीतविनादैश्च कुर्यात्काममहोत्सवम् । एवं कुर्वन्नवाप्नोति यावत्संवत्सरं सुखम् ||" इति ।
ततः प्रतिपद्युत्सवानन्तरमित्यर्थः । श्रयं चोत्सवः पूर्वविद्धायामेव, " प्रतिपत्सद्वितीया स्याद् द्वितीया प्रतिपद्युता" इति वक्ष्यमाणयुग्मवाक्यात् । द्वितीया बुधेन सिद्धा । शुक्रेण विरुद्धा | अत्र योगिन्युत्तरस्याम् । इति द्वितीया निर्णीता ।
अथ तृतीया निर्णीयते । सा तु परैव । तदुक्तं ब्रह्मवैवर्ते"रम्भाख्यां वर्जयित्वैकां तृतीयां द्विजसत्तम । श्रन्येषु शुभकार्येषु गणयुक्ता प्रशस्यते ॥” इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com