________________
तिथ्यर्कः जया तृतीया। कार्तिक शुक्ल द्वितीया यमद्वितीयोच्यते । साऽपराह्णव्यापिनी ग्राह्या, कर्मकालवाक्यात् । तदुक्तं हेमाद्रौ स्कान्दे
"ऊर्जे शुक्ल द्वितीयायामपराह्नेऽर्चयेद्यमम् । स्नानं कृत्वा भानुजायां यमलोकं न पश्यति ।। ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः । वेष्टितः किन्नरैर्दृष्टैस्तस्मै यच्छति वाञ्छितम् ॥” इति ।
दिनद्वये कभकालव्याप्तावव्याप्ती वा सामान्यनिर्णयोऽवसेयः । गौडास्तु विशेषमाहुः
"यमं च चित्रगुप्तं च यमदूतांश्च पूजयेत् । चित्रगुप्तस्य पूजां च कुर्याद् ज्ञानस्य वृद्धये ॥ मसीपात्रं लेखनी च पूजयेच्च प्रयत्नतः ।
सर्वान् कामानवाप्नोति यमलोकं न पश्यति ॥” इति । अस्यां भगिनीगृहे भोक्तव्यमित्युक्तं भविष्ये
"कार्तिके शुरूपक्षस्य द्वितीयायां युधिष्ठिर ! । यमो यमुनया पूर्व भोजितः स्वगृहेऽर्चितः ॥ अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता । अस्यां निजर हे विप्र ! न भोक्तव्यं ततो नरैः ॥ स्नेहेन भगिनीहस्ताभोक्तव्यं पुष्टिवर्धनम् । दानानि च प्रदेयानि भगिनीभ्यो विशेषतः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com