SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ३२ तिथ्यर्कः "सिता ज्येष्ठद्वितीया च आश्विने दशमी सिता । चतुर्थी द्वादशी माघे एताः सेोपपदाः स्मृताः ।। " वेदाध्ययनादिनिषिद्धमुक्तं नारदीये "युगादिषु च सर्वासु तथा मन्वन्तरादिषु । अनध्यायं प्रकुर्वीत तथा सेोपपदा तिथौ ॥” इति ॥ श्राषाढशुक्ल द्वितीयायां रामयात्रोत्सवः कार्यः । तथा च स्कान्दे " आषाढस्य सिते पक्ष द्वितीया पुष्यसंयुता । तस्यां रथे समारोप्य रामं वै भद्रया सह || यात्रोत्सवं प्रवर्त्याथ प्रीणयेत द्विजान् बहून् । ऋक्षाभावे तिथौ कार्या यात्रा सा प्रीतये मम ॥” इति । श्रावणकृष्णद्वितीया बृहत्तल्पोच्यते । सा पूर्वविद्धा ग्राह्या । तदाह संवर्तः– "कृष्णाष्टमी बृहत्तल्पा सावित्री वटपैत्रिकी । कामत्रयोदशी रम्भा उपोष्या पूर्वसंयुता ॥” इति । चातुर्मास्यकृष्णद्वितीयासु चतसृष्वप्यशून्याख्य ं व्रत ं कुर्यादित्युक्तं निर्णयामृते पुराणसमुच्चये - "चतुर्ध्वपि पक्षेषु मासेषु श्रावणादिषु । अशून्याख्यं व्रतं कुर्याज्जयया तु फलाधिकम् ॥” इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy