________________
तिथ्यर्कः
२४१ "वापीकूपतडागेषु गिरिप्रस्रवणेऽपि च । नद्यां नदे देवखाते सरसीद्धताम्बुनि ॥
उष्णोदकेन वा स्नायाद् ग्रहणे सोमसूर्ययोः ।" उष्णोदकमातुरस्येत्याह व्याघ्रः
"आदित्यकिरणैः पूतं पुनः पूतच वह्निना ।
अतो व्याध्यातुरः स्नायाद् ग्रहणेऽप्युष्णवारिणा ॥ इति । एतेन वारणं स्नानं मुख्यम्, तदभावे नित्यवदाग्नेयाद्यपि कार्यमिति सूचितम् । व्यासः
"सर्व गङ्गासमं तोयं सर्वे ब्रह्मसमाः द्विजाः ।
सर्वं भूमिसमं दान ग्रहणे सोमसूर्ययोः ॥” इति । क्षेत्राणि देवीपुराणे
"गङ्गा कनखलं पुण्य प्रयागः पुष्करं तथा ।
कुरुक्षेत्रं महापुण्य राहुग्रस्ते दिवाकरे ॥” इति । अत्र श्राद्धं कार्यम्
"सर्वस्वेनापि कर्तव्य श्राद्धं वै राहुदर्शने ।
अकुर्वाणस्तु नास्तिक्यात् पङ्के गौरिव सीदति ॥" इति वचनात् । तन्मुच्यमानकाले कार्यमित्युक्तं प्राक् । तचोपवासवता कार्यमिति विवेचनकारः। भुक्त्वापि कार्यमित्यपरे । शिवरहस्ये
"सूर्णेन्दुग्रहणं यावत्तावत्कुर्याज्जपादिकम् ।। न स्वपेन च भुञ्जीत स्नात्वा भुञ्जीत मुक्तयोः ॥" इति ।
३१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com