SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४२ तिथ्यर्कः जन्मनक्षत्रराश्यादौ स्थितरविसामग्रहणे दोष इत्युक्तं ज्योतिःशास्त्रे"त्रिषडदशायोपगते नराणां शुभप्रदं स्याद् ग्रहणं रवीन्द्वोः । द्विसप्तनन्देषु च मध्यम स्या च्छेपेष्वनिष्टं कथितं मुनीन्द्रैः ॥” इति । विष्णुधर्मोत्तरे "सूर्यस्य संक्रमो वापि ग्रहणं शशिसूर्ययोः । यस्य त्रिजन्मनक्षत्रे तस्य रोगोऽथवा मृतिः ॥ 'त्रिजन्मनक्षत्राणि' जन्मदशमैकोनविंशतिः । होरायां ग्रस्यते यस्य नक्षत्रे वा निशाकरः । प्राणसन्देहमाप्नोति स वा मरणमच्छति ॥ यन्नक्षत्रगतो राहुर्घसते शशिभास्करौ । तज्जनानां भवेत्पीडा ये नराः शान्तिवर्जिताः ।। 'होरा जन्मलग्नम् । तस्य दानं च हामं च देवार्चनजपो तथा । उपरागाभिषेकं च कुर्याच्छान्तिर्भविष्यति ॥ स्वर्णेन वाऽथ पिष्टेन कृत्वा सर्पस्य चाकृतिम् । ब्राह्मणाय ददेत्तस्य न रोगादिश्च तत्कृतः ॥" 'सर्पस्य तदाकारस्य राहोरित्यर्थः। ज्योतिःसागरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy