SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २४० तिथ्यर्कः "चन्द्रसूर्यग्रहे नाद्यात्तस्मिन्नहनि पूर्वतः ।। राहोर्विमुक्ति विज्ञाय स्नात्वा कुर्वीत भोजनम् ।" इति वृद्धगौतमेन विज्ञायेति सामान्यतोऽभिधानात् । एतेन चाक्षुपदर्शनमेव स्नाननिमित्तमिति ब्रुवन्तो निरस्ता वेदितव्याः। हेमाद्रौ शातातपः "ग्रस्यमाने भवेत् स्नान ग्रस्त होमो विधीयते । मुच्यमाने श्राद्धदाने मुक्ते स्नान विधीयते ॥ इति । तथा च ग्रस्यमाने स्नानमकुर्वन्तो गोडा भ्रान्ता एव । ब्रह्मवैवत्तें "विमुक्ते यदि न स्नायाच्चन्द्रसूर्यग्रहे तथा । तस्य तावदशौचं स्याद् यावदन्यः परो ग्रहः ॥” इति । अत्र स्नान गङ्गादिमहानदीषु कार्यम् । तदुक्तं महाभारते "गङ्गास्नानं प्रकुर्वीत ग्रहणे सोममूर्ययोः। महानदीषु सर्वासु स्नानं कुर्याद् यथाविधि ॥” इति । महानद्यो ब्राह्मे दर्शिताः "गोदावरी भीमरथी तुङ्गभद्रा च वेणिका । तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः ॥ भागीरथी नर्मदा च यमुना च सरस्वती । विशोका चतस्रश्च विन्ध्यस्योत्तरस्तथा ॥” इति । महानद्यभावे शङ्ख पाह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy