________________
तिथ्यर्क:
शातातप:--
"सैंहिकेयेो यदा सूर्य ग्रसते पर्वसन्धिषु । गजच्छाया तु सा ज्ञेया पितॄणां दत्तमक्षयम् ॥” इति । शैचिनोऽपि ग्रहणे स्नानमुक्तं वृद्धवसिष्ठेन" सूतके मृतके चैव न दोषो राहुदर्शने । तावदेव भवेच्छुद्धिर्यावन्मुक्ति दृश्यते ।।" शुद्धिरित्युक्ते राशचिनो दानमपि भवति । रजस्वलाया विशेषो मिताक्षरायाम् -
" स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला । पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ।" इति ।
'व्रतम्' रजखलाधर्मरूपम् । ग्रहणे पुण्यकालमाह जाबालि :“संक्रान्तौ पुण्यकालस्तु षोडशोभयतः कलाः । चन्द्रसूर्योपरागे च यावद्दर्शनगोचरे ॥” इति ।
' दर्शनम्' शास्त्रीयं ज्ञानम् । तथा च यावत्कालपर्यन्तं शास्त्रेण ग्रहणं ज्ञायते, तावत्कालः पुण्यसमय इति भावः । नन्वेवं सति द्वीपान्तरग्रहणेऽपि स्नानदानप्रसङ्ग इति वाच्यम्,
"सूर्यग्रहो यदा रात्रौ दिवा चन्द्रे ग्रहस्तथा ।
तत्र स्नानं न कुर्वीत दद्यादानं न तु क्वचित् ॥"
२३६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
dom
इति षट्त्रिंशन्मते तस्य निषेधात् । मेघाद्याच्छिन्ने मोक्षस्नानमपि शास्त्रेण मुक्तिं विज्ञाय कार्यम्,
www.umaragyanbhandar.com