SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क: शातातप:-- "सैंहिकेयेो यदा सूर्य ग्रसते पर्वसन्धिषु । गजच्छाया तु सा ज्ञेया पितॄणां दत्तमक्षयम् ॥” इति । शैचिनोऽपि ग्रहणे स्नानमुक्तं वृद्धवसिष्ठेन" सूतके मृतके चैव न दोषो राहुदर्शने । तावदेव भवेच्छुद्धिर्यावन्मुक्ति दृश्यते ।।" शुद्धिरित्युक्ते राशचिनो दानमपि भवति । रजस्वलाया विशेषो मिताक्षरायाम् - " स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला । पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ।" इति । 'व्रतम्' रजखलाधर्मरूपम् । ग्रहणे पुण्यकालमाह जाबालि :“संक्रान्तौ पुण्यकालस्तु षोडशोभयतः कलाः । चन्द्रसूर्योपरागे च यावद्दर्शनगोचरे ॥” इति । ' दर्शनम्' शास्त्रीयं ज्ञानम् । तथा च यावत्कालपर्यन्तं शास्त्रेण ग्रहणं ज्ञायते, तावत्कालः पुण्यसमय इति भावः । नन्वेवं सति द्वीपान्तरग्रहणेऽपि स्नानदानप्रसङ्ग इति वाच्यम्, "सूर्यग्रहो यदा रात्रौ दिवा चन्द्रे ग्रहस्तथा । तत्र स्नानं न कुर्वीत दद्यादानं न तु क्वचित् ॥" २३६ Shree Sudharmaswami Gyanbhandar-Umara, Surat dom इति षट्त्रिंशन्मते तस्य निषेधात् । मेघाद्याच्छिन्ने मोक्षस्नानमपि शास्त्रेण मुक्तिं विज्ञाय कार्यम्, www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy