________________
२३८
तिथ्यर्कः “यथा स्नानं च दानं च सूर्यस्य ग्रहणे दिवा ।
सोमस्यापि तथा रात्रौ स्नानं दानं विधीयते ॥" इति । दानान्युक्तानि भारते
"भूमिर्गावः सुवर्ण च धान्यं वा यद्यदीप्सितम् ।
तत्सर्वं ग्रहणे देयमात्मनः श्रेय इच्छता ।।" एतदान सत्पात्रो देयमित्युक्तं तत्रैव
"अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।
पात्रभूताय विप्राय भूमिं दद्यात् सदक्षिणाम् ॥” इति । पात्रलक्षणमाह याज्ञवल्क्यः --
"न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥” इति । वृत्तमाह ौनकः--
"सत्यं शौचं क्षमा धैर्य वृत्तमित्यभिधीयते ।" एतादृशपात्रालाभे बौधायनः
"श्रोत्रियोऽश्रोत्रियो वापि पात्रं वाऽपात्रमेव वा ।
विमब्रवोऽपि वा विप्रो ग्रहणे दानमर्हति ॥” इति । हेमाद्रौ व्यासः-...
"सूर्यवारे रविग्राहः सोमे सेामग्रहस्तथा । चूडामणिरिति ख्यातस्तत्रानन्तफलं लभेत् ।। वारेवन्येषु यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः । तत्पुण्यं कोटिगुणित ग्रासे चूडामणौ स्मृतम् ॥” इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com