________________
२३७
तिथ्यर्कः "ग्रस्ते चास्तंगते त्विन्दौ ज्ञात्वा मुक्त्यवधारणम् ।
स्नानहोमादिकं कार्य भुञ्जीतेन्दूदये पुनः ॥” इति । कचित्त · स्नात्वा पाकादिकं कार्यम्' इति तृतीयश्चरणः । इन्दुपदं रवेरुपलक्षणम् । तेन सायं सन्ध्यादिसिद्धिः। हेमाद्रौ] पत्रिंशन्मते
"सर्वेषामेव वर्णानां सूतकं राहुदर्शने ।
स्नात्वा कर्माणि कुर्वीत शृतमन्नं विवर्जयेत् ॥" 'शृतम्' पाचितम् । ग्रहणात् पूर्व पाचितं ग्रहणेत्तरं न भोक्तव्यमिति भावः । शृतान्नसंसर्गित्वात् तत्पात्राणामपि क्षालन त्यागश्च । केषुचित् प्रतिप्रसवो वचनान्तरे
"प्रारनालं च तवं चाद्यादेवं घृतपाचितम् ।
उदकश्च कुशच्छन्नं न दुष्येद्राहुदर्शने ॥” इति । कुशच्छन्नमिति सर्वत्रान्वेति । ग्रहणे होमादिस्मातकर्म कुर्वीत, ___"स्मार्तकर्मपरित्यागो राहोरन्यत्र मूतके ।" इति वचनात् । वेधकाले ग्रहणे वा भोजने प्रायश्चित्त माधवीये कात्यायन आह
"चन्द्रसूर्यग्रहे भुक्त्वा प्राजापत्येन शुद्धयति ।
तस्मिन्नेव दिने भुक्त्वा त्रिरात्रेणैव शुद्धयति ।।" इति । वेधे भोजने त्रिरात्रोपोषणात् शुद्धिरित्यर्थः । चन्द्रग्रहे रात्रावपि स्नानदानादिकार्यमित्याह देवल:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com