SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्क विषयानुक्रमणिका ज्येष्ठशुक्लदशम्येषा दशपापहरा स्मृता । दशपापानि चेोक्तानि योगानां दशकं तथा ॥ ८० ॥ एतत्कृत्यं सुविततं मलमासेऽपि तत्क्रिया । कर्त्तव्यत्वेन निर्दिष्टा ततो दशहरास्तवः ॥ ८१ ॥ मन्वादयेो विस्तरेण कथिताः कत्यसंयुताः । संक्रान्ति निर्णयः पश्चात्तद्भेदानां प्रदर्शनम् ॥ ८२ ॥ मेषादिदानकथनं पुण्यकाल निरूपणम् । अयने द्वे विनिर्दिष्टे तत्त्यं चापि विस्तरात् ॥ ८३ ॥ आश्विनस्य तु शुकस्य दशमीनिर्णयस्ततः । सीमोल्लङ्घनकार्य हि पूजनं चाऽऽपराजितम् ॥ ८४ ॥ देशान्तरस्य गमन' शमीपूजा निरूपणम् । राजकृत्यं विस्तरेण ह्यभिषेकनिरूपणम् ॥ ८५ ॥ दुर्दशानाशकं पश्चादादित्यव्रतमीरितम् । दशमीनियमाः सर्वे सिद्धयेोगप्रदर्शनम् ॥ ८६ ॥ योगिनीनिर्णयः पश्चान्नितैकादशी ततः । माहात्म्यमा कथितमधिकारिण ईरिताः || ८७ ॥ असामर्थ्य प्रतिनिधिः प्रकारान्तरमीरितम् । स्त्रीणां विशेषः कथितः सूतकेऽनुष्ठितिर्मता ॥ ८८ ॥ दृष्टे रजस्यपि तथा नारीणां करणं मतम् । काम्योपवासे नियमा न तु नित्ये प्रदर्शितम् ॥ ८९ ॥ २७६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy