________________
२८०
तिथ्यर्कविषयानुक्रमणिका
वैकादशी द्वेषा शुद्धा विद्धेति भेदतः ।
शुद्धा त्रिधेति सम्प्रोक्तमरुणोदयलक्षणम् ।। ९० || लक्षणं वैष्णवस्योक्तं ततः स्मार्तविनिर्णयः । शुद्धा विद्धेति संप्रोक्ता शुद्धा स्यात्तु चतुर्विधा ॥ ९९ ॥
२
एकादश्यधिका द्वादश्यधिका चोभयाधिका । उभयाधिक्यरहिता विद्धा चैवं प्रकीर्त्तिता ॥ ९२ ॥
नित्यकाम्यभेदेन द्विविधं व्रतमीरितम् ।
काम्यासमापने दोष कीर्त्तनं क्षयलक्षणम् ॥ ९३ ॥
उपवासनिषेधे च भक्ष्यनिर्णय ईरितः ।
हविष्यद्रव्यकथनं भोजनाद्यप्रणाशकम् || ९४ ॥ चैत्रस्यैकादशीकृत्यं विस्तरेणानुवर्णितम् । वैशाखस्तानकालस्तु निर्जलैकादशीव्रतम् ।। ९५ ।। शयनीनिर्णयः पश्चान्मलमासनिषेधनम् । चातुर्मासव्रतारम्भकालाः सर्व इहोदिता: ।। ९६ ।।
स्तादिदोषो नास्तीति व्रतसंख्या च कीर्त्तिता । नित्यत्वमेषां कथितं शाकभेदाः प्रकीर्त्तिताः ॥ ९७ ॥ द्विदलानां हि संख्यानं वर्ज्यवस्तु निदर्शनम् । काम्यव्रतानां कथनं समाप्तौ दानकीर्त्तनम् ॥ ९८ ॥
व्रतग्रहणमार्गस्तु श्रावणैकादशीकृतिः ।
नभस्यैकादशीकृत्ये दुग्धव्रतविचारणम् ।। ९९ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com