________________
तिथ्यर्कविषयानुक्रमणिका २८१ कार्तिकस्नानसमयास्त्र्यहस्त्रानप्रशंसनम् । धान्यादिसेवनं दानं द्विदलारम्भकीर्तनम् ॥ १० ॥ देवोत्थापनकालश्च भीष्मपञ्चककीर्तनम् । पौषस्यैकादशीकृत्यं माघस्नानं ततः परम् ॥ १०१ ॥ प्रयागस्नानमहिमा ततस्त्र्यहविनिर्णयः । फाल्गुनैकादशीकृत्यं समासेनानुवर्णितम् ॥ १०२ ॥ अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः । द्वादशीनिर्णयः पश्चात् पारणानिर्णयः पुनः ॥ १०३ ॥ श्राद्धादिकालसंमा विद्भिः पारणनिर्णयः । हरिवासरसंज्ञा तु मधुद्वादशिकाकृतिः ॥ १०४ ॥ मन्त्रा दमनकस्योक्ता वामनाचनमीरितम् । पारिभाषिकसंज्ञाश्च व्यतीपातः प्रकीर्तितः ॥ १०५ ॥ रामद्वादशिका प्रोक्ता तप्तमुद्राविधारणम् । शूद्रस्य विहितं पश्चात् पवित्रारोपणं स्मृतम् ॥ १०६ ॥ जयन्ती वामनस्योक्ता तत्कृत्यं चापि सर्वशः । श्रवणद्वादशी प्रोक्ता विष्णुशृङ्खलवर्णनम् ॥ १०७ ॥ प्राशस्त्यं बुधयोगेन पारणानिर्णयस्ततः । इतरासां द्वादशीनां नामान्युक्तान्यनुक्रमात् ॥ १०८ ॥
आश्विनद्वादशीकृत्यं गोवत्सद्वादशीव्रतम् ।। विधान निर्णययुतं तत्र वर्ण्यविनिर्णयः ॥ १०९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com