________________
२७८
तिथ्यर्कविषयानुक्रमणिका मलमासे निषेधस्तु व्रतस्यास्य प्रदर्शितः । भद्रकाल्यर्चन विधिर्माधवे पक्षयाईयोः ।। ७० ।। नवम्यामुपवासस्य विधिरेषः प्रदर्शितः । ज्येष्ठशुक्लनवम्यां तु पार्वतीपूजनं मतम् ।। ७१ ॥ आषाढे नवमीयुग्मे दुर्गार्चा संप्रदर्शिता । श्रावणे नवमीयुग्मे नक्तभोजनमीरितम् ।। ७२ ॥ भाद्रशुक्ल नवम्यां च दुर्गार्चनविधिः स्मृतः । इपकृष्णनवम्यादिसंदिष्टोऽन्वष्टकाविधिः ।। ७३ ॥ इषस्य शुक्लनवमी महती संप्रकीर्तिता । बलिप्रदानं तत्रैव बलिद्रव्यन्तु कीर्तितम् ।। ७४ ॥ तन्मन्त्रश्चाथ होमस्य द्रव्याण्युक्तान्यनुक्रमात् । मूर्ते विसर्जनं पश्चात् पारणानिर्णयः कृतः ॥ ७५ ।। सूतके पारणं प्रोक्तमारम्भादेहि लक्षणम् । विवाहोऽथ तुलस्यास्तु कार्तिके नवमीदिने ।। ७६ ।। तद्विधिश्च युगादेहि कृत्यमुक्तं सविस्तरम् । युगान्ताः कथिताः सर्वे तत्कत्यं चापि दर्शितम् ।। ७७ ॥ सहामासस्य नवमीकृत्यं माघस्य चैव हि । अथ सिद्धविरुद्धादियोगिनोनिर्णयस्ततः ।। ७८ ।। दशमीनिर्णयश्चाऽथ साधारण्येन कीर्तितः । चैत्रशुक्लदशम्यां तु यमपूजनमीरितम् ॥ ७९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com