SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तिथ्यर्कः ___"नवम्यां च जपं होमं समाप्य विधिवद् बलिम् ॥" इति राजमार्तण्डे उक्तत्वात् । न च समाप्यैतद्वलाद् अष्टम्यामारम्भा नवम्यां समाप्तिरिति वाच्यम् , "बलिदाने कृतेऽष्टम्यां पुत्रभङ्गो भवेन्नृप !" इति देवीपुराणेनिष्टश्रुतेः । "नवम्यां बलिदानं तु कर्त्तव्यं वै यथाविधि । जपं हामं च विधिवत्कुर्यात्तत्र विभूतये ॥" इति कालिकापुराणे नवम्यामेवोक्तत्वान्नवम्यामुपक्रम्य नवम्यामेव समापयेत् । ब्राह्मणानां बलिद्रव्याणि रुद्रयामले "ब्राह्मणेन सदा देयं कूष्माण्डं बलिकर्मणि । श्रीफलं वा सुराधीश ! छेदं नैव तु कारयेत् ॥ माषान्नेन बलिर्देयो ब्राह्मणेन विजानता ।" इति । बलिदानमन्त्रः "बलि गृह्णन्त्विमे देवा आदित्या वसवस्तथा । मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥ असुरा यातुधान्यश्च ये च विघ्नविनायकाः । जगतां शान्तिकारो ब्रह्माद्याश्च महर्षयः ॥ मा विघ्नमा च मे पापं मा सन्तु परिपन्थिनः । सौम्या भवन्तु तृप्ताश्च भूतप्रेताः सुखावहाः ॥” इति । होमद्रव्याण्युक्तानि रुद्रयामले _Shree Sudharmaswami Gyanbhandar-Umara, Surat . www.umaragyanbhandar.com
SR No.034647
Book TitleTirthyak
Original Sutra AuthorN/A
AuthorDiwakar
PublisherAchyut Granthmala
Publication Year1933
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy